________________
॥ १३९ ॥
दर्शयति- 'एस संसारेति पवुच्चति' एषः- अण्डजादिप्राणिकलापः संसारः प्रोच्यते नातोऽन्यस्त्रसानामुत्पत्तिप्रकारोऽस्तीत्युक्तं भवति ॥ कस्य पुनरत्राष्टविधभूतग्रामे उत्पत्तिर्भवतीत्याह
मंदस्सावियाणओ ॥ सू०.४९ ॥
मन्दो द्विधा - द्रव्यभावभेदात् तत्र द्रव्यमन्दोऽऽतिस्थूलोऽतिकृशो वा भावमन्दोऽप्यनुपश्चितबुद्धिर्वाल : कुशास्त्रवासितबुद्धिर्वा, अयमपि सद्बुद्धेरभावाद्बाल एव इह भावमन्देनाधिकारः, 'मन्दस्ये' ति बालस्याविशिष्टबुद्धेः अत एव अविजानतो - हिताहितप्राप्तिपरीहारशून्यमनसः इत्येषोऽनन्तरोक्तः संसारो भवतीति ॥ यद्येवं ततः किमित्याह
निज्झाइत्ता पडिलेहित्ता दत्तेयं परिनिव्वाणं सव्वेसिं पाणानं सव्वेसि भूयाणं सव्वेसिंजीवाणं सव्वेसिं सत्ताणं अस्सायं अपरिनिव्वाणं महम्भयं दुक्खं तिबेमि, तसंति पाणा पदिसो दिसासु य ॥ सू० ५० ॥
एवमिमं सकायमा गोपालाङ्गनादिप्रसिद्धं निश्चयेन ध्यात्वा निर्ध्याय चिन्तयित्वेत्यर्थः क्त्वाप्रत्ययस्योत्तर क्रियापेक्षत्वाद् ब्रवीमीत्युत्तरक्रिया सर्व्वत्र योजनीयेति । पूर्व्वं च मनसाऽऽलोच्य ततः प्रत्युपेक्षणं भवतीति दर्शयति- 'पडिलेहेत्त 'त्ति प्रत्युपेक्ष्य-दृष्ट्वा यथावदुपलभ्येत्यर्थः, किं तदिति दर्शयति- 'प्रत्येक' मित्येकमेकं सकायं प्रति परिनिर्वाणंसुखं प्रत्येक सुखभाजः सर्वेऽपि प्राणिनः नान्यदीयमन्य उपभुङ्क्ते सुखमित्यर्थः, एष च सर्व्वप्राणिधर्म्म इति दर्शयतिसर्वेषां प्राणिनां - द्वित्रिचतुरिन्द्रियाणां तथा सर्व्वेर्षा भूतानां - प्रत्येकसाधारणसूक्ष्मवादरपर्याप्तकापर्याप्त कतरूणामिति, तथा
॥ १३९ ॥