________________
श्रीआचा
राङ्गवृत्तिः
॥ १३८॥
अस्य चानन्तरपरम्परादिसूत्रसम्बन्धः प्राग्यद्वाच्यः, सोऽहं ब्रवीमि येन मया भगवद्वदनारविन्दविनिमृतार्थजातावधारणात् यथावदुपलब्धं तत्त्वमिति, 'सन्ति' विद्यन्ते त्रस्यन्तीति प्रसाः-प्राणिनो द्वीन्द्रियादयः, ते च कियझेशः
अध्ययन किंप्रकाराश्चेति दर्शयति-तद्यथेति वाक्थोपन्यासार्थः, यदिवा 'तत्' प्रकारान्तरमर्थतो यथा भगवताऽभिहितं
उद्देशकः ६ तथाऽहं भणामीति, अण्डाज्जाताः अण्डजाः-पक्षिगृहकोकिलादयः, पोतादेव जायन्ते पोतजाः 'अन्येष्वपि दृश्यते' (पा-३-२-१०१) इति जनेर्डप्रत्ययः, ते च हस्तिवन्गुलीचर्मजलूकादयः, जरायुवेष्टिता जायन्त इति जरायुजाः, पूर्ववत् डप्रत्ययः, गोमहिष्यजाविकमनुष्यादयः, रसाज्जाता रसजा.-तक्रारनालदधितीमनादिषु पायुकम्याकृतयोऽतिसूक्ष्मा भवन्ति, संस्वेदाज्जाताः संस्वेदजाः-मत्कुणयुकाशतपदिकादयः, सम्मुर्छनाज्जाताः सम्मृर्छनजाः-शलभपिपीलिकामाक्षकाशालिकादयः, उद्भेदनमुद्भित्ततो जाता उद्भिजाः, पृषोदरादित्वादलोपः पतङ्गखञ्जरीटपारीप्लवादयः, उपपाताज्जाता उपपातजाः, अथवा उपपाते भवा औपपातिकाः-देवा नारकाच, एवमष्टविधं जन्म यथासम्भवं संसारिणो नातिवर्तन्ते, एतदेव शास्त्रान्तरे त्रिविधमुपन्यस्त "सम्मूर्च्छनगर्भोपपाता जन्म" (सत्त्वार्थ० अ० २ सूत्र ३२) रसस्वेदजोद्भिज्जानां सम्मृर्छनजान्तःपातित्वात् अण्डजपोतजजरायुजानां गर्भजान्तःपातित्वात् देवनारकाणामोपपातिकान्तःपातित्वात् । इति त्रिविधं जन्मेति, इह चाष्टविधं सोत्तरभेदत्वादिति । एवमेतस्मिन्नष्टविधे जन्मनि सर्वे त्रसजन्तवः संसारिणी निपतन्ति, नैतद्वयतिरेकेणान्ये सन्ति, एते चाष्टविधयोनिभाजोऽपि सर्वलोकप्रतीता बालाङ्गनादिजनप्रत्यक्षप्रमाणसमधिगम्याः, 'सन्ति च' अनेन शब्देन त्रैकालिकमस्तित्वं प्रतिपाद्यते त्रसानां, न कदाचिदेतैविरहितः संसारः सम्भवतीक्षि, एतदेव