________________
.१३५॥
प्रादुर्भावाः क्षीरमध्वास्रवादयः, शानावरणाद्यान्तरायावसानकर्माष्टकस्य स्वशक्तिपरिणाम उदयः, लेश्या:-कृष्णादिभेदा अशुभाः शुभाश्च कषाययोगपरिणतिविशेषसमुत्थाः, संज्ञास्त्वाहारभयपरिग्रहमैथुनाख्याः, अथवा दशभेदाः-अनन्तरोक्ताश्चतस्रः क्रोधाद्याश्च चतस्रस्तथौघसंज्ञा लोकसंज्ञा च, उच्छ्वासनिःश्वासौ प्राणापानौ, कषायाः कषः-संसारस्तस्यायाः क्रोधादयोऽनन्तानुबन्ध्यादिभेदात् षोडशविधाः । एतानि गाथाद्वयोपन्यस्तानि द्वीन्द्रियादीनां लक्षणानि यथासम्भवमवगन्तव्यानीति, न चैवविधलक्षणकलापसमुच्चयो घटादिष्वस्ति, तस्मात्तत्राचैतन्यमध्यवस्यन्ति विद्वांसः ॥ अभिहितसक्षणकलापोपसञ्जिहीर्षया तथा परिमाणप्रतिपादनार्थ गाथामाह
लक्षणमेवं चेव उ पयरस्स असंखभागमित्ताउ । निक्खमणे य पवेसे एगाईयावि एमेव ॥१५॥ तुशब्दः पर्याप्तिवचनः, द्वीन्द्रियादिजीवानां लक्षणं-लिङ्गमेतावदेव दर्शनादि परिपूर्ण, नातोऽन्यदधिकमस्तीति । परिमाणं पुनः क्षेत्रतः संवर्तितलोकप्रतरासङ्ख्येयभागावर्तिप्रदेशराशिपरिमाणास्त्रसकायपर्याप्तकाः, एते च चादरतेजस्कायपर्याप्तकेभ्योऽसंख्येयगुणाः, त्रसकायपर्याप्तकेभ्यस्त्रसकायिकापर्याप्तकाः असंख्येयगुणाः, तथा कालतः प्रत्युत्पन्न
सकायिकाः सागरोपमलक्षपृथक्त्वसमयराशिपरिमाणा जघन्यपदे, उत्कृष्टपदेऽपि सागरोपमलक्षपृथक्त्वसमयगशिपरिमाणा एवेति, तथा चागमः-"पडप्पन्नतसकाइया केवतिकालस्स निल्लेवा सिया 1, गोयमा १ जहन्नपए
१ प्रत्युत्पन्नत्रसकायिकाः कियता कालेन निर्लेपाः स्युः, गौतम ! जघन्यपदे सागरोपमशतसहस्रपृथक्त्वेन उत्कृष्टपदेऽपि सागरोपमशतसहस्रपृथक्त्वेन ।
॥१३५॥