________________
श्रीआचाराङ्गवृत्तिः (शीलाङ्का.)
उद्देशकः ६
पणवीसा। एगिदियबितिइन्दिय(सत्त? य नव य अट्ठवीसं च । बेइन्दियतेइदिय)चउरिंन्दियहरियकायाणं ॥१॥ अडत्तेरस बारस दस दस नव चेव कोडिलक्खाई। जलयरपक्खिचउप्पयउरभुयपरिसप्पजीवाणं ॥ २॥ पणवीसं छब्बीसं च सयसहस्साई नारयसुराणं । पारस य सयसहस्सा कुल- कोडीणं मणुस्साणं ॥ ३॥ एगा कोडाकोडी सत्ताणउतिं च सयसहस्साई। पन्नासं च सहस्सा कुलकोडीणं मुणेयब्वा ॥ ४॥ अङ्कतोऽपि १९७५००००००००००० सकलकुलसङ्ग्रहोऽयं बोद्धव्य इति ॥ उक्ता परूपणा, तदनन्तरं लक्षणद्वारमाहदसणनाणचरित्ते चरियाचरिए अदाणलाभे अ। उवभोगभोगवीरिया इंदियविसए य लडीय ॥१५६॥
उवओगजोगअज्झवसाणे वोमुच लडि णं उदया(ओदइया)।
अट्ठविहोदय लेसा सन्नुसासे कसाए अ॥१५७॥ 'दर्शन' सामान्योपलब्धिरूपं चक्षुरचक्षुरवधिकेवलाख्य, मन्यादीनि ज्ञानानि स्वपरपरिच्छेदिनो जीवस्य परिणामाः ज्ञानावरणविगमव्यक्तास्तत्त्वार्थपरिच्छेदाः, सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातानि चारित्रं, चारित्राचारित्रं देशविरतिः स्थूलप्राणातिपातादिनिवृत्तिलक्षणं श्रावकाणां, तथा दानलामभोगोपभोगवीर्यश्रोत्रचक्षुर्घाणरसनर्देशनाख्याः दश लब्धयः जीवद्रव्याव्यभिचारिण्यो लक्षणं भवन्ति, तथोपयोग:-साकारोऽनाकारश्चाष्टचतुर्भेदः, योगो मनोवाकायाख्यस्त्रिधा, अध्यवसायाश्चानेकविधाः सूक्ष्माः मनःपरिणामविशेषाः, विष्वग्-पृथग् लब्धीनामुदया:
१३४॥