SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ अध्यय१ श्रीआचाराङ्गवृत्तिः (शीलाका.) ॥ १२६॥ उद्देशकः ५ शन्दादिगुणलोकेऽगुप्तो यो मनोवाकायैः मनसा द्वेष्टि रज्यते वा वाचा प्राथनं शब्दादीनां करोति कायेन शब्दादिविषयदेशममिसर्पति, एवं यो ह्यगुप्तो भवति सोऽनाज्ञायां वर्त्तते, न भगवत्प्रणीतप्रवचनानुसारीतियावदिति ॥ एवं गुणश्च यत्कुर्यात्तदाह पुणो पुणो गुणासाए, वंकसमायारे ॥ सू. ४३ ।। ततधासावसकृच्छब्दादिगुणलुब्धो न शक्नोत्यात्मानं शन्दादिगृद्धेनिवर्तयितुम् , अनिवर्तमानश्च पुनः पुनर्गुणास्वादो भवति, क्रियासातत्येन शब्यादिगुणानास्वादयतीत्यर्थः, तथा च यादृशो भवति तदर्शयति-वक्र:-असंयमः कुटिलो नरकादिगत्याभिमुख्यप्रवणत्वात्, समाचरणं समाचार:-अनुष्ठानं, वक्रः समाचारो यस्यासौ वक्रसमाचारः, असंयमानुष्ठायीत्यर्थः, अवश्यमेव शब्दादिविषयाभिलाषी भूतोपमईकारीत्यतो वक्रसमाचारः, प्राक् शब्दादिविषयलवसमास्वादनाद्गृद्धः पुनरात्मानमाचारयितुमसमर्थत्वादपथ्याम्रफलभोजिराजवद्विनाशमाशु संश्रयत इति ॥ एवं चासौ नितरां जितः शब्दादिविषयसमास्वादनात् 'खंतपुत्तोव्व' इदमाचरति पमत्तेऽगारमावसे ॥ सू०४४॥ प्रमत्तो विषयविषमूर्छितः 'अगारं' गृहमावसति, योऽपि द्रव्यलिङ्गसमन्वितः शब्दादिविषयप्रमादवान् असावपि विरतिरूपमावलिङ्गरहितत्वात् गृहस्थ एवेति । अन्यतीर्थिकाः पुनः सर्वदा सर्वथाऽन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह ॥१२६॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy