________________
उड्ढे अहं तिरियं पाईणं पासमाणे स्वाइं पासति, सुणमाणे सद्दाईसुणेति, उड्ढे अहं
पाईणं मुच्छमाणे रुवेसु मुच्छति, सद्देसु आवि ॥ सू०४१॥ प्रज्ञापकदिगङ्गीकरणादूद्धवदिग्व्यवस्थितं रूपगुणं पश्यति प्रासादतलहादिषु, 'अध'मित्यवाङ अधस्तात गिरिशिखरप्रासादाधिरूढोऽधोब्यवस्थितं रूपगुणं पश्यति, अधःशब्दार्थे अबाङित्ययं वर्त्तते, गृहभित्त्यादिव्यवस्थितं रूपगुणं तिर्यक् ।। पश्यति, तिर्यकशब्देन चात्र दिशोऽनुदिशश्च परिगृह्यन्ते, ताश्चेमाः-'प्राचीन मिति पूर्वा दिग, एतच्चोपलक्षणम् , अन्या अप्येतदाद्यास्तिर्यग्दिशो द्रष्टव्या इति, एतासु दिक्षु पश्यन् चक्षुर्ज्ञानपरिणतो रूपादिद्रव्याणि चक्षुाद्यतया परिणतानि पश्यति-उपलभत इत्यर्थः, तथा तासु च शृण्वन् शृणोति शब्दानुपयुक्तः श्रोत्रेण नान्यथेति ॥ अत्रोपलब्धिमात्रं प्रतिपादितं, न चोपलब्धिमात्रात्संसारप्रपातः, किन्तु यदि मूछौं रूपादिषु करोति, ततोऽस्य बन्ध इति दर्शयितुमाह'उड्ड'मित्यादि पुनरूद्धर्वादेमूर्जासम्बन्धनार्थमुपादानं, मूर्छन् रूपेषु मूर्छति, रागपरिणाम यान् रज्यते रूपादिष्वित्यर्थः, एवं शब्देष्वपि मछति, अपिशब्दः सम्भावनायां समुच्चये वा, रूपशब्दविषयग्रहणाच्च शेषा अपि गन्धरसस्पर्शा गृहीता भवन्ति, 'एकग्रहणे तज्जातीयानां ग्रहणाद, आद्यन्तग्रहणादा तन्मध्यग्रहणमवसेयमिति ॥ एवं विषयलोकमाख्याय विवक्षितमाहएस लोए वियाहिए एत्थ अगुत्ते अणाणाए ॥ ४२॥
| ॥ १२५॥ 'एष' इति रूपरसगन्धस्पर्शशब्दविषयाख्यो लोको व्याख्यातः, लोक्यते परिच्छिद्यते इतिकृत्वा, एतस्मिंश्च प्रस्तुते