SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ .१२३॥ तदन्तःपातिन एव च शब्दादिविषयामिष्बङ्गिणो भवन्तीति ॥ अस्यार्थस्य प्रसिद्धये गतप्रत्यागतलक्षणमितरेतरावधारणफलं सूत्रमाह जे गुणे से आवट्टे जे आवट्टे से गुणे ॥ सू. ४०॥ यो 'गुणः शन्दादिकः स आवतः, आवर्तन्ते-परिभ्रमन्ति प्राणिनो यत्र स आवतः-संसारः, इह च कारणमेव कार्यत्वेन व्यपदिश्यते यथा नड्वलोदकं पादगेगा, एवं य एते शब्दादयो गुणाः स आवतः, तत्कारणत्वात् , अथवैकवचनोपादानात्पुरुषोऽभिसम्बध्यते, यः शव्यादिगुणेषु वर्तते स आवर्ने वर्तते, यश्चावचें वर्तते स गुणे वर्तत इति, अत्र कश्चिच्चोद्यचञ्चुगह-यो गुणेषु वर्तते स आवर्ने वर्तत इति साधु, यः पुनरावतें वर्तते नासौ नियमत एव गुणेषु वर्तते, यस्मात्साधवो वर्तन्ते आवर्ते न गुणेषु तदेतत्कथमिति, अत्रोच्यते, सत्यम् , आवर्ते यतयो वर्तन्ते न गुणेषु, किन्तु रागद्वेषपूर्वकं गुणेषु वर्तनमिहाधिक्रियते, तच्च साधूनां न सम्भवति, तदभावात्, आवर्तोऽपि संसरणरूपो दुःखात्मको न सम्भवति, सामान्यतस्तु संसारान्तःपातित्वं सामान्यशब्दादिगुणोपलब्धिश्च सम्भवत्येवातो नोपलब्धिः प्रतिषिच्यते, रागपरिणामो द्वेषपरिणामो वा यस्तत्र स प्रतिषिध्यते, तथा चोक्तम्-"'कण्णसोक्खेहिं सद्देहिं पेम्म नाभिनिवेसए" इत्यादि, तथा चोक्तम्-"न शक्यं रूपमद्रष्टु, चक्षर्गोचरमागतम् । रागद्वेषौ तु यौ तत्र, तो बुधः परिवर्जयेत् ॥ १॥" इति, कथं पुनर्गुणभूयस्त्वं वनस्पतिभ्य इति प्रदर्श्यते-वेणुवीणापटहमुकुन्दादीनामा १ कर्णसौल्येषु शब्देषु प्रेम नाभिनिवेशयेत् । ॥१२३॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy