________________
अध्ययनं १
श्रीआचाराङ्गवृत्तिः (शीलाका.)
उद्देशकः ५
॥ १२२॥
'अभयं विदित्ता' अविद्यमानं भयमस्मिन्सत्त्वानामित्यमयः-संयमः, स च सप्तदशविधानस्तं चाभयं-सर्वभूतपरिपालनात्मकं संसारसागरानिर्वाहकं विदित्वा वनस्पत्यारम्भानिवृत्तिविधेयेति । एतदेव दर्शयितुमाह-'तं जे नो करए' इत्यादि, 'तं' वनस्पत्यारम्भ 'यो विदिततदारम्भकटुकविपाकः नो कुर्यात, तस्य प्रतिविशिष्टेष्टफलावाप्तिर्नान्यस्यान्ध- मूढया प्रवर्त्तमानस्य, अभिलषितविप्रकृष्टस्थानप्राप्तिप्रवृत्तान्धक्रियाव्याघातवदिति मन्तव्यं, ज्ञानमपि क्रियाहीनं न मोक्षाय, गृहान्तर्दधमाननिनक्षुपगुचक्षुर्ज्ञानवदिति, एवं च ज्ञात्वाऽभ्युपेत्य च तत्परिहारः कर्त्तव्य इति दर्शितं भवति । एवं यः सम्यगज्ञानपूर्विकां निवृत्तिं करोति स एव समस्तारम्भनिवृत्त इति दर्शयति—'एसोवरए'त्ति एष एव सर्वस्मादारम्भावनस्पतिविषयादुपरतो यो यथावत् ज्ञात्वाऽऽरम्भं न करोतीति, स पुनरेवंविधनिवृत्तिभाकिं शाक्यादिष्वपि सम्भवत्युतेहैव प्रवचन इति दर्शयति-'एत्थोवरए'त्ति एतस्मिन्नेव जैनेन्द्र प्रवचने परमार्थत उपरतो नान्यत्र, यथाप्रतिज्ञातनिरवद्यानुष्ठायित्वादुपरतव्यपदेशभाग् भवति न शेषाः शाक्यादयः, तद्विपरीतत्वाद्, एष एव च सम्पूर्णानगारव्यपदेशमश्नुते इति दर्शयति-'एस अणगारेत्ति पवुच्चई 'एष:' अतिक्रान्तसूत्रार्थव्यवस्थितोऽविद्यमानागारोऽनगारः प्रकर्षण उच्यते प्रोच्यते इति, किंकृतः प्रकर्षः, अनगारव्यपदेशकारणभूतगुणकलापसम्बन्धकृतः प्रकर्षः, इतिशब्दोऽनगारव्यपदेशकारणपरिसमाप्तिद्योती, एतावदनगारलक्षणं नान्यदिति, ये पुनः प्रोशितपारमार्थिकानगारगुणाः शब्दादीविषयानङ्गीकृत्य प्रवर्तन्ते ते तु नापेक्षन्ते वनस्पतीन् जीवान्, यतो भूयांसः शब्दादयो गुणा वनस्पतिभ्य एव निष्पधन्ते, शन्दादिगुणेष्वेव वर्तमाना रागद्वेषविषमविविघूर्णमानलोललोचना नरकादिचतुर्विधगत्यन्तःपातिनो बोधव्याः,
॥१२२७