SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ॥१२१ तं णो करिस्सामि समुहाए, मत्ता मइमं अभयं विदित्ता, तं जे णो करए, एसोवरए, एत्थोवरए, एस अणगारेत्ति पवुच्चई ॥ सू० ३६ ॥ अस्य चानन्तरपरम्परादिसूत्रैः सम्बन्धः प्राग्वद्वाच्यः, उक्तं प्राक् 'सातान्वेषिणो हि वनस्पतिजन्तूनां दुःखमुदीरयन्ति, ततश्च तन्मूलमेव दुःखगहने संसारसागरे भ्राम्यत्ति सत्त्वाः' इत्येवं विदितकटुकविपाका समस्तवनस्पतिसत्त्व विषयविमर्दनिवृत्तिमात्यन्तिकीमात्मनि दर्शयबाह-'तत्' वनस्पतीनां दुःखमहं दृष्टप्रत्यपायो न करिष्ये, यदिवा तद्दुःखोत्पत्तिनिमित्तभृतं वनस्पतावारम्भ-छेदनमेदनादिरूपं नो करिष्ये मनोवाकायैः, तथाऽपरैन कारयिष्ये, तथा कुर्वतश्चान्यानानुमंस्ये, किं कृत्वेति दर्शयति-सर्वज्ञोपदिष्टमार्गानुसृत्या सम्यक् प्रव्रज्योत्थानेनोत्थाय समुत्थाय, प्रव्रज्या प्रतिपद्येत्यर्थः, तदेवं वर्जितसकलसावद्यारम्भकलापः संस्तद्वनस्पतिदुःखं तदारम्भं वा नो करिष्यामीति, अनेन च संयमक्रिया दर्शिता, न च क्रियात एव मोक्षावाप्तिः, किं तहिं ? ज्ञानक्रियाभ्यां, तदुक्तम्-'नाणं किरियारहियं किरियामेत्तं च दोऽवि एगन्ता । न समत्था दाउ' जे जम्ममरणदुक्खदाहाई॥१॥" यत एवमतो विशिष्टमोक्षकारणभूतज्ञानप्रतिपिपादयिषयाऽऽह-'मत्ता मइम' मत्वा-ज्ञात्वा अवबुध्य यथावत् जीवान् , मतिरस्यास्तीति मतिमान् , मतिमानेवोपदेशाहों भवतीत्यतस्तद्वारेणैव शिष्यामन्त्रणं हे मतिमन् ! प्रव्रज्या प्रतिपद्य जीवादिपदार्थाश्च ज्ञात्वा मोक्षमवाप्नोतीति, सम्यगज्ञानपूर्विका हि क्रिया फलवतीति दर्शितं भवति । पुनरत्रैवाह१ज्ञान क्रियारहित क्रियामानं च द्वे अप्येकान्तात् । न समर्थे दातुं यानि जन्ममरणदुःखदाहकानि ॥१॥ ॥ १२१॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy