SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ११६॥ पुनः प्रत्येकशरीरवादरवनस्पतिपर्याप्तकजीवेभ्योऽसङ्ख्येयगुणाः, शेषास्त्रयोऽपि राशयः प्रत्येकमसङ्ख्येयलोकाकाशप्रदेशपरिमाणाः, के पुनस्त्रय इति ?, उच्यन्ते, अपर्याप्तकवादरनिगोदा अपर्याप्तकसूक्ष्मनिगोदाः पर्याप्तकसूक्ष्मनिगोदाः, एते च क्रमशो बहुतरका द्रष्टव्या इति, साधारणजीवास्तेभ्योऽनन्तगुणाः, एतच्च जीवपरिमाण, प्राक्तनं तु गशिचतुष्टयं निगोदपरिमाणमिति ॥ परिमाणद्वारानन्तरमुपभोगद्वारमभिधित्सुराह-- . आहारे उवगरणे सयणासण जाण जुग्गकरणे य । आवरण पहरणेसु अ सत्थविहाणेसु अ बहुसु॥१४॥ __ आहार:-फलपत्रविशलयमूलकन्दत्वगादिनिर्वगः, उपकरणं व्यजनकटककवलकार्गलादि, शयनं-खटवाफलकादि, आसनम्-आसन्दकादि, यानं-शिविकादि, युग्यं-गन्त्रिकादि, आवरणम्-फल कादि, प्रहरणं-लकुटमुसुण्ढयादि, शस्त्रविधानानि च बहूनि तनिर्वानि, शरदात्रखङ्गचुरिकादिगण्डोपयोगित्वादिति । तथाऽपरोऽपि परिभोगविधिः, तद्दर्शनायाह आउन कट्ठकम्मे गंधंगे वत्थ मल्लजोए य । झावणवियावणेसु अ तिल्लविहाणे अ उज्जोए ॥१४७॥ आतोद्यानि-पटहभेरीवंशवीणाझल्लर्यादीनि, काष्ठकर्म-प्रतिमास्तम्भद्वारशाखादि, गन्धाङ्गानि-बालकप्रियगुपत्रकदमनकत्वक्चन्दनोशीरदेवदार्वादीनि, वस्त्राणि-वल्कलकसमयादीनि, माल्ययोगा-नवमालिकाचकुलचम्पकपुन्नागाशोकमालतीविचकिलादयः, मापनं-दाहो भस्मसात्करणमिन्धनैः, वितापनं-शीताभ्यदितस्य शीतापनयनाय काष्ठप्रज्वालनात, तैलविधानं-तिलातसीसर्षपेङ्गुदीज्योतिष्मतीकरञ्जादिभिः, उद्योतो-वर्तितणचूडाकाष्ठादिभिरिति । एवमेतान्युपभोगस्थानानि प्रतिपाद्य तदुपसञ्जिही गह-- ॥११॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy