________________
श्रीआचा-' राङ्गवृत्तिः (शीलाङ्का.)
॥ ११८ ॥
निगोदानामनन्तजीवानां, सूक्ष्मनिगोदानां तु नोपलभ्यन्ते, अनन्तजीवसङ्घातत्वे सत्यप्यतिसूक्ष्मत्वादिति भावः, निगोदास्तु नियमत एवानन्तजीवसङ्घाता भवन्तीति, उक्तं च - " " गोला य असंखेजा हुंति णिओआ असङ्ख्या गोले । एक्केको य निओए अनंतजीवा णेयव्वो [ ॥ १ ॥" एवं वनस्पतीनां वृक्षादिप्रत्येकादिभेदात्तथा वर्णगन्धरसस्पर्शभेदात् सहस्राग्रशो विधानानि संख्येयानि योनिप्रमुखानि शतसहस्राणि मेदानामवसेयानीति, तथाहि वनस्पतीनां संवृता योनिः सा च सचित्ताचित्तमिश्रभेदात् त्रिधा, तथा शीतोष्णमिश्रभेदाच्च तथा प्रत्येकतरूणां दश लक्षा योनिभेदान, साधारणानां च चतुर्दश, कुलकोटीनां द्वयोरपि पञ्चविंशतिकोटिशतसहस्राणीति ॥ उक्तं विधानद्वारम्, इदानीं परिमाणमभिधीयते तच्च प्रथमं सूक्ष्मानन्तजीवानां दर्शयितुमाह-
पत्थेण व कुडवेण व जह कोइ मिणिज सव्वधन्नाइं । एवं मविजमाणा हवंति लोया अनंता उ ॥१४४॥ प्रस्थकुड वादिना यथा कश्चित्सर्वधान्यानि प्रमिरणुयात्, मित्वा चान्यत्र प्रक्षिपेद् एवं यदि नाम कश्चित्साधारणराशि लोक मत्वाऽन्यत्र प्रक्षिपेत् तत एवं मीयमाना भवन्ति लोका अनन्ता इति ॥ इदानीं बादरनिगोदपरिमाणाभिधित्सयाss -
जे बायरपज्जत्ता पयरस्स असंखभागमित्ता ते । सेसा असंखलोया तिन्निवि साहारणाणता ॥ १४५॥ ये पर्याप्तकवादरनिगोदास्ते संवचितचतुरश्री कृतसकललोकप्र तरासङ्ख्येय भागवर्त्तिप्रदेशराशिपरिमाणा भवन्ति, एते १ गोलाश्चासङ्ख्येया भवन्ति निगोदा असङ्ख्यया गोले । एकैकश्च निगोंदोऽनन्त जीवो मुणितव्यः ॥ १ ॥
अध्ययन १
• उद्देशक: ५
॥ ११८ ॥