________________
जाः पद्मिनामान्तीत्यत आत सरीरसंघाव
पुनस्ते मेदा इत्याहअग्गबीया मूलबीया खंधवीया चेव पोरबीया य। बीयरहा समुच्छिम समासओ वयसईजीवा ॥१३०॥ तत्र कोरिण्टकादयोऽग्रवीजाः, कदल्यादयो मूलबीजाः, निहुशल्लक्कयरणिकादयः स्कन्धबीजाः, इक्षवंशवेत्रादयः पर्वबीजाः, बीजरुहाः शालिब्रीह्यादय, सम्मूर्छ नजाः पद्मिनीशृङ्गाटकपाठशैवलादयः, एवमेते समासात्तरुजीवाः पोढा कथिताः, नान्ये सन्तीति प्रतिपत्तव्यं ॥ किंलक्षणाः पुन: प्रत्येकतरवो भवन्तीत्यत आहजह सगलसरिसवाणं सिलेसमिस्साण पत्तिया वही। पत्तयसरीराणं तह हुति सरीरसंघाया ॥१३॥ यथेति दृष्टान्तोपन्यासार्थः, यथा सकलसर्पपाणां श्लेषयतीति श्लेषः-सर्जरसादिस्तेन मिश्रितानां वर्तिता' वलिता वतिः तस्यां च वतौं प्रत्येकप्रदेशाः क्रमेण सिद्धार्थकाः स्थिताः, नान्योऽन्यानुवेधेन, चूर्णितास्तु कदाचिदन्योऽन्यानुवेधमाजोऽपि स्युरित्यतः सकलग्रहणं, यथाऽसौ वर्तिस्तथा प्रत्येकतरुशरीरसङ्घातः, यथा च सर्षपास्तथा तदधिष्ठायिनो जीवाः, यथा श्लेषविमिश्रितास्तथा रागद्वेषप्रचितकर्मपुद्गलोदयमिश्रिताः जीवा, पश्चिमार्द्धन गाथाया उपन्यस्त दृष्टान्तेन सह साम्यं प्रतिपादितं, तथेति शब्दोपादानादिति । अस्मिन्नेवार्थे दृष्टान्तान्तरमाहजह वा तिलसक्कुलिया पहुएहिं तिलेहिं मेलिया संती। पत्तयसरीराणं तह हुंति सरीरसंघाया॥१३२॥ ___ यथा वा तिलशकुलिका-तिलप्रधाना पिष्टमयपोलिका बहुभिस्तिलनिष्पादिता सती भवति, तथा प्रत्येकशरीराणां तरूणां शरीरसङ्घाता भवन्तीति द्रष्टव्यमिति ॥ साम्प्रतं प्रत्येकशरीरजीवानामेकानेकाधिष्ठितत्वप्रतिपिपादयिषयाऽऽह