SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ श्रीआचा गङ्गवृत्तिः (शीलाङ्का.) ॥११२॥ स्त्वनेकभेदाः, सर्वेऽप्येते समासतः षोढा प्रत्येतव्याः । तत्र प्रत्येकतरुद्वादशभेदप्रत्यायनायाह- - अध्ययनं १ रुक्खा गुच्छा गुम्मा लया य वल्लो य पब्वगाचेव । तणवलयहरियओसहिजलरुहकुहणा य बोद्धव्वा ॥११॥ वृश्च्यन्त इति वृक्षाः, ते द्विविधाः-एकास्थिका बहुबीजकाच, तत्रैकास्थिकाः-पिचुमन्दाम्रकोशम्बशालाकोल्लपीलुशल्ल-उद्देशकः ५ क्यादयः, बहुबीजकास्तु-उदुम्बरकपित्थास्तिकतिन्दुकविल्वामलकपनसदाडिममातुङ्गादयः, गुच्छास्तु-वृन्ताकीकर्पासीजपाआढकीतुलसीकुसुम्मरीपिप्पलीनील्यादयः, गुल्मानि तु-नवमालिकासेरियककोरण्टकबन्धुजीवकबाणकरवीरसिन्दुवारविचकिलजातियूथिकादयः, लतास्तु-पद्मनागाशोकचम्पकचूतवासन्तीअतिमुक्तककुन्दलताद्याः, वल्लयस्तु-कुष्माण्डीकालिङ्गीत्रपुषीतुम्बीवालुङ्कीएलालुकीपटोल्यादयः, पर्वगाः पुनः-इक्षुवीरणशुण्ठशरवेत्रशतपर्व(त्री)वंशनलवेणुकादयः, तृणानि तु-श्चेतिकाकुशदर्भपर्व(वर्च)कार्जुनसुरभिकुरुविन्दादीनि, वलयानि च-तालतमालतकलीशालसरलाकेतकीकदलीकन्दल्यादीनि, हरितानि-तन्दुलीयकाधूयारुहवस्तुलबदरकमार्जारपादिकाचिल्ली(विल्लरी)पालक्यादीनि, औषध्यस्तु-शालीव्रीहिगोधूमयवकलममसूरतिलमुद्गमाषनिष्पावकुलत्थातसीकुसुम्भकोद्रवकङ्ग्वादयः, जलरुहा-उदकावकपनकशैवलकलम्बुकापाव(वा)ककशेरुकउत्पलपद्मकुमुदनलिनपुण्डरीकादया, कुहु(ह)णास्तु-भूमिस्फोटकाभिधानाः आयकायकुहुणकुण्डुक्कोदेहलिकाशलाकासप्पच्छत्रादयः, एषां हि प्रत्येकजीवानां वृक्षाणां मृलस्कन्धकन्दत्वकशालप्रवालादिष्वसंख्येयाः प्रत्येक जीवाः, पत्राणि पुष्पाणि चैकजीवानि मन्तव्यानि, साधारणास्त्वनेकविधाः, तद्यथा-लोहीनिहुस्तुभायिकाअश्वकर्णीसिंहकर्णीशङ्गबेर(रा)मालुकामूलककृष्णकन्दसूरणकन्दकाकोलीक्षीरकाकोलीप्रभृतयः॥ 'सर्वेऽप्येते संक्षेपात् षोढा भवन्ती'त्युक्तं, के
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy