________________
क्रमोलाइनकारणमिति, उच्यते। एष हि वापुरचाक्षुपत्वाद्दुःश्रद्धानः, अतः समधिगताशेषपृथिव्यायेकेन्द्रियप्राणिगणस्वरूपः शिष्यः श्चय(सुख)मेव वायुजीवस्वरूपं प्रतिपत्स्यते, स एव च क्रमो येन शिष्याः जीवादितत्त्वं प्रति प्रोत्सहन्ते यथावत्प्रतिपत्तमिति, वनस्पतिकायस्तु समस्तलोकप्रत्यक्षपरिस्फुटजीवलिङ्गकलापोपेतः, अतः स एव तावत्प्रतिपाद्यते. इत्यनेन सम्बन्धेनायातस्यास्य चत्वार्यनुयोगद्वाराणि वाच्यानि यावन्नामनिष्पन्ने निक्षेपे वनस्पत्युद्देशकः, तत्र वनस्पतेः स्वभेदकलापप्रतिपादनाय पूर्वप्रसिद्धार्थातिदेशद्वारेण नियुक्तिकृदाह
पुढवीए जे दारा वणसइकाएऽवि हुँति ते चेव । नाणत्ती उ विहाणे परिमाणवभोगसत्थे य ॥१२६॥ ___ यानि पृथवीकायसमधिगतये द्वाराण्युक्तानि तान्येव वनस्पतौ द्रष्टव्यानि, नानात्वं तु प्ररूपणापरिमाणोपभोगशस्त्रेषु
चशब्दाल्लक्षणे च द्रष्टव्यमिति ।। तत्रादौ प्ररूपणास्वरूपनिपिनायाह| दुविह वणस्सइजीवा सुहुमा तह थायरा य लोगंमि । मुहुमा य सव्वलोए दो य भवे बायरविहाणा ॥१२७॥
वनस्पतयो द्विविधाः-सूक्ष्मा बादराश्च, सूक्ष्माः सर्वलोकापन्नाश्चक्षुर्लाह्याश्च न भवन्त्येकाकारा एव, बादराणां पुनद्व विधाने ॥ के पुनस्ते बादरविधाने इत्यत आहपत्तेया साहारण बायरजीवा समासओ दुविहा । बारसविहऽणेगविहा समासओ छव्विहा हुति॥१२८॥ बादराः समासतः द्विविधाः-प्रत्येकाः साधारणाश्च, तत्र पत्रपुष्पमूलफलस्कन्धादीन प्रति प्रत्येको जीवो येषां ते प्रत्येकजीवाः, साधारणास्तु परस्परानुविद्धानन्तजीवसङ्घातरूपशरीरावस्थानाः, तत्र प्रत्येकशरीरा द्वादशविधानाः, साधारणा
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
१११॥