________________
गोयमा! साहरेगं जोयणसहस्सं सरीरोगाहणा' न तथाऽन्येषामेकेन्द्रियाणाम् , अतः स्थितमेतत-सर्वथा .१०३॥
दीर्घलोको वनस्पतिरिति, अस्य च शस्त्रमग्निः, यस्मात्स हि प्रवृद्धज्वालाकलापाकुलः सकलतरुगणप्रध्वंसनाय प्रभवति, अतोऽसौ तदुत्सादकत्वाच्छस्त्रं, ननु च सर्वलोकप्रसिद्धथा कस्मादग्निरेव नोक्तः ?, किं वा प्रयोजनमुररीकृत्योक्तं
दीर्घलोकशस्त्रमिति, अत्रोच्यते, प्रेक्षापूर्वकारितया, न निरभिप्रायमेतत्कृतमिति, यस्मादयमुत्पाद्यमानो ज्वाल्यमानो वा Bहव्यवाहः समस्तभूतग्रामघाताय प्रवर्त्तते, वनस्पतिदाहप्रवृत्तस्तु बहुविधसत्वसंहतिविनाशकारी विशेषतः स्यात् , यतो
वनस्पतौ कृमिपिपीलिकाभ्रमरकपोतश्वापदादयः सम्भवन्ति, तथा पृथिव्यपि तरुकोटरव्यवस्थिता स्यात् , आपोऽप्यवश्यायरूपाः, वायुरपीपच्चञ्चलस्वभावकोमलकिशलयानुसारी सम्भाव्यते, तदेवमग्निसमारम्भप्रवृत्तः एतावतो जीवानाशयति, अस्यार्थस्य सूचनाय दीर्घलोकशखग्रहणमकरोत् सूत्रकार इति, तथा चोक्तम्-"'जायतेयं न इच्छन्ति, पावगं जलइत्तए। तिक्खमन्नघरं सत्थं, सव्वओऽवि दुरासयं ॥॥पाईणं पडिणं वावि, उ अणदिसामवि । अहे दाहिणओ वावि, दहे उत्तरओऽवि य॥२॥ भूयाणमेसमाघाओ, हव्ववाहो न संसओ। तं. पईवपयावहा, संजओ किंचि नारभे ॥३॥ अथवा बादरतेजस्कायाः पर्याप्तकाः स्तोकाः, शेषाः पृथिव्यादयो
܀܀܀܀܀܀܀܀܀܀܀܀܀
܀܀܀܀܀܀܀܀܀܀܀
१ जाततेजसं नेच्छन्ति पावकं ज्वलयितुम् । तीक्ष्णमन्यतरत् शस्त्रं सर्वतोऽपि दुराश्यम् ।। १।। प्राचीनं प्रतीचीनं वापि ऊवमनुदिक्ष्वपि । अधो दक्षिणतो वापि दहति उत्तरतोऽपि च ॥२॥ भूनानामेष भाघातो हव्यवाहो न संशयः । तत् प्रदीपप्रतापार्थ संयतः किञ्चिन्नारभेत ॥३॥