SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शीलाङ्का.) ॥१०४॥ जीवकाया बहवः, भवस्थितिरपि त्रीण्यहोरात्राणि स्वल्पा इतरेषां पृथिव्यब्वायुवनस्पतीनां यथाक्रमं द्वाविंशतिसप्तत्रिदश अध्ययनं १ वर्षसहस्रपरिमाणा दीर्घा अवसेया इति, अतो दीर्घलोकः-पृथिव्यादिस्तस्य शस्त्रम्-अग्निकायस्तस्य 'क्षेत्रज्ञो निपुणः अग्निकार्य वर्णादितो जानातीत्यर्थः, 'खेदज्ञो वा' खेदः-तद्व्यापारः सर्वसत्त्वानां दहनात्मकः पाकाद्यनेकशक्ति-उद्देशकः ४ कलापोपचितः प्रवरमणि रिख जाज्वल्य मानो लब्धाग्निव्यपदेशः यतीनामनारम्भणीयः, तमेवंविधं खेदम्-अग्निव्यापार जानातीति खेदज्ञः, अतो य एव दीर्घलोकशस्त्रस्य खेदज्ञः स एव 'अशस्त्रस्य' सप्तदशभेदस्य संयमस्य खेदज्ञः, संयमो हि न कश्चिज्जीवं व्यापादयति अतोऽशस्त्रम् , एवमनेन संयमेन सर्वसत्वाभयप्रदायिनाऽनुष्ठीयमानेनाग्निजीवविषयः समारम्भः शक्यः परिहतु पृथिव्यादिकायसमारम्भश्चेत्येवमसौ संयमे निपुणमतिर्भवति, ततश्च निपुणमतित्वाद्विदितपरमार्थोऽग्निसमारम्भाद्वथावृत्य संयमानुष्ठाने प्रवर्तते । इदानीं गतप्रत्यागतलक्षणेनाविनाभावित्वप्रदर्शनार्थ विपर्ययेण सूत्रावयवपरामर्श करोति—'जे असत्थस्से'त्यादि, यश्चाशस्त्र-संयमे निपुणः स खलु दीर्घलोकशस्त्रस्य-अग्नेः क्षेत्रज्ञः खेदज्ञो वा, संयमपूर्वकं ह्यग्निविषयखेदज्ञत्वम , अग्निविषयखेदज्ञतापूर्वकं च संयमानुष्ठानम् , अन्यथा तदसम्भव एवेत्येतद्गतप्रत्यागतफलमाविर्भावितं भवति ॥ कैः पुनरिदमेवमुपलब्धमित्यत आह—'वीरेही त्यादि, अथवा सद्वक्तृप्रसिद्धौ सत्यां वाक्यप्रसिद्धिर्भवतीत्यत उपदिश्यतेवीरेहिं एवं अभिभूय दिह, संजएहिं सया जत्तेहिं सया अप्पमत्तेहि ॥ सू० ३३॥ ॥१०४॥ घनघातिकमसङ्घातविदारणानन्तरप्राप्तातुलकेवलश्रिया विराजन्त इति वीराः-तीर्थकरास्तैर्वी रैरर्थतो दृष्टमेतद्गण ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy