________________
॥ १०१
܀܀܀܀
से बेमि व सयं लोगं अग्भाइक्खेजा णेव अत्ताणं अब्भाइक्वेजा, जे लोयं अन्भाइक्खइ से अत्ताणं अब्भाइक्खइ, जे अत्ताणं अब्भाइक्खह से लोयं अब्भाइक्खह || सू० ३१ ॥ अस्य च सम्बन्धः प्राग्वद्वाच्य इति, येन मया सामान्यात्मपदार्थ पृथिव्यप्काय जीव प्रविभागव्यावर्णनम कारि स एवाहमव्यवच्छिन्नज्ञानप्रवाहस्ते जो जीवस्वरूपोपलम्भसमुपजनितजिनवचनसम्मदो ब्रवीमि किं पुनस्तदिति दर्शयति'नैवेत्यादि, इह हि प्रकरणसम्बन्धाल्लोकशब्देनाग्निकाय लोकोऽभिधित्सितः, अतस्तमग्निलोकं जीवत्वेन नैव 'स्वयम्' आत्मनाऽभ्याचक्षीत - नैवापनुवीतेत्यर्थः, एतदभ्याख्याने ह्यात्मनोऽपि ज्ञानादिगुणकलापानुमितस्याभ्याख्यानमवाप्नोति, अथ च प्राक् प्रसाधितत्वादभ्याख्यानं नैवात्मनो न्याय्यम्, एवं तेजस्कायस्यापि प्रसाधितत्वात् अभ्याख्यानं क्रियमाणं नयुक्तिपथमवतरति, एवं चास्य युक्त्यागमबलप्रसिद्धस्याभ्याख्याने क्रियमाणे सत्यात्मनोऽप्यहं प्रत्यय सिद्धस्याभ्याख्यानं भवतः प्राप्तम् । एवमस्त्विति चेत्, तन्नेति दर्शयति- 'नेव अत्ताणं अभाइक्स्खेजा' नैवात्मानं - शरीराधिष्ठातारं ज्ञानगुणं प्रत्यात्मसंवेद्यं प्रत्याचक्षीत, तस्य शरीराधिष्ठातृत्वेन आहृतमिदं शरीरं केनचिदभिसन्धिमता, तथा त्यक्तमिदं शरीरं केनचिदभिसन्धिमतैवेत्येवमादिभिर्हेतुभिः प्रसाधितत्वात् न च प्रसाधितप्रसाधनं पिष्टपेषणवत् विद्वज्जनमनांसि रञ्जयति, एवं च सत्यात्मवत्प्रसाधितमग्निलोकं यः प्रत्याचक्षीत सोऽतिसाहसिक आत्मानमभ्याख्याति - निराकरोति, यश्चात्माभ्याख्यानप्रवृत्तः स सदैवाग्निलोकमभ्याख्याति, सामान्य पूर्वकत्वाद्विशेषाणां सति ह्यात्मसामान्ये पृथिव्याद्यात्मविभागः सिद्धयति, नान्यथा, सामान्यस्य विशेषव्यापकत्वात् व्यापकविनिवृत्तौ च व्याप्यस्याप्यवश्यं भाविनी
॥ १०१ ॥