________________
अध्ययनं १
'एतैः' दहनादिभिः कारणैस्तेजस्कायिकाम् जीवान् 'हिंसन्तीति सङ्घनपरितापनापद्रावणानि कुर्वन्ति 'सातं सुखं श्रीआचा
तदात्मनोऽन्वेष्यन्तः 'परस्य' बादराग्निकायस्य दुःखम् 'उदीरयन्ति' उत्पादयन्तीति ।। साम्प्रतं शबद्वारं, तच्च द्रव्यराङ्गवृत्तिः
भावशस्त्रभेदात् द्विधा, द्रव्यशस्त्रमपि समासविभागभेदात द्विधैव, तत्र समासतो द्रव्यशस्त्रप्रतिपादनायाह(शीलाङ्का.)
पुढवी आउक्काए उल्ला य वणस्सई तसा पाणा। बायरतेउक्काए एयं तु समासओ सत्थं ॥१२३॥ ॥१०॥ 'पृथिवी' धृलिः अपकायश्च आर्द्रश्च वनस्पतिः त्रसाश्च प्राणिनः, एतद्वादरतेजस्कायजन्तूनां 'समासतः' सामान्येन
शस्त्रमिति | विभागतो द्रव्यशस्त्रस्वरूपमाहकिंची सकायसत्थं किंचो परकाय तदुभयं किंची। एयं तु दव्वसत्थं भावे य असंजमो सत्यं ॥१२४॥ किश्चिच्छस्त्रं स्वकाय एव-अग्निकाय एव अग्निकायस्य, तद्यथा-तार्णोऽग्निः पर्णाग्नेः शस्त्रमिति, किश्चिच्च परकायशस्त्रम्-उदकादि, उभयशस्त्रं पुन:-तुषकरीषादिव्यतिमिश्रोऽग्निरपराग्नेः, तुशब्दो भावशस्त्रापेक्षया विशेषणार्थ:, एतत्त' पूर्वोक्तं समासविभागरूपं पृथिवीस्वकायादि द्रव्यशस्त्रमिति | माक्शस्त्रं दर्शयति-भावे शस्त्रम् असंयमो-दुष्प्रणिहित| मनोवाकायलक्षण इति ॥ उक्तव्यतिरिक्तद्वारातिदेशद्वारेणोपसञ्जिहीष नियुक्तिकदाह
सेसाई दाराईताई जाई हवंति पुढवीए । एवं तेउद्देसे निज्जुत्ती कित्तिया एसा ॥१२५॥ अ उक्तशेषाणि द्वाराणि तान्येव यानि पृथिव्युद्देशकेऽभिहितानि 'एवम्' उक्तप्रकारेण तेजस्कायाभिधानोद्देशके | नियुक्तिः 'कीर्तिता' व्यावर्णिता भवतीति । साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्---
१०००