SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ 186॥ नचादित्यादिभिरनेकान्तः, सर्वेपामात्मप्रयोगपूर्वकं यत उष्णपरिणामभाक्त्वं तस्मानानेकान्तः, तथा सचेतनं तेजी, यथायोग्याहारोपादानेन वृद्धिविशेषतद्विकारवत्वात् , पुरुषवत् , एवमादिना लक्षणेनाग्नेया जन्तवो निश्चेया इति ।। उक्तं लक्षणद्वारं, तदनन्तरं परिमाणद्वारमाहजे बायरपज्जत्ता पलिअस्स असंखभागमित्ता उ । सेसा तिपिणवि रासी वीसुलोगा असंखिजा ॥१२०॥ ये वादरपर्याप्तानलजीवाः क्षेत्रपल्योपमासङ्खथ यभागमात्रवर्तिप्रदेशराशिपरिमाणाः भवन्ति, ते पुनर्वादरपृथिवीकायपर्याप्तकेभ्योऽसङ्खथे यगुणहीनाः, शेषास्त्रयोऽपि राशयः पृथ्वीकायवद्भावनीयाः, किन्तु चादरपृथिवीकायापर्याप्तकेभ्यो बादरान्यपर्याप्तका असंख्येयगुणहीनाः सूक्ष्मपृथिवीकायापर्याप्तकेभ्यः सूक्ष्माग्नेयापर्याप्तका विशेषहीनाः सूक्ष्मपृथिवीकायपर्याप्तकेभ्यः सूक्ष्माग्नेयपर्याप्तका विशेषहीना इति ॥ साम्प्रतमुपभोगद्वारमाहदहणे पयावण पगासणे य भत्तकरणे य सेए य । बायरतेउक्काए उवभोगगुणा मणस्साणं ॥१२॥ दहन-शरीराद्यवयवस्य वाताद्यपनयनाथ प्रकृष्टं तापनं प्रतापन-शीतापनोदाय प्रकाशकरणमुद्योतकरणं-प्रदीपादिना भक्तकरणम्-ओदनादिरन्धनं स्वेदो-ज्वरविसूचिकादीनाम् , इत्येवमादिष्वनेक प्रयोजनेषूपस्थितेषु मनुष्याणां बादरतेजस्कायविषया उपभोगरूपा गुणा उपभोगगुणा भवन्तीति ॥ तदेवमेवमादिभिः कारणैः समुपस्थितैः सततमारम्भप्रवृत्ता गृहिणो यत्याभासा वा सुखैषिणस्तेजस्कायजन्तून् हिंसन्तीति दर्शयितुमाह 1880 __एएहिं कारणेहिं हिंसंती तेउकाइए जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥ १२२ ॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy