________________
श्रीआचाराङ्गवृत्तिः (शीलाङ्का.)
॥ ६६ ॥
अत्रैवापकाये शस्त्रमसमारभमाणस्येत्येते आरम्भा ज्ञपरिज्ञया परिज्ञाता भवन्ति प्रत्याख्यान परिज्ञया च परिहृता भवन्ति, तामेव प्रत्याख्यानपरज्ञां विशेषतो ज्ञपरिज्ञापूत्रिकां दर्शयति- 'तद्' उदकारम्भणं बन्धायेत्येवं परिज्ञाय मेधावी - मर्यादाव्यवस्थितो नैव स्वयमुदकशस्त्रं समारभेत, नैवान्यैरुदकशस्त्रं समारम्भयेत् नैवान्यानुदकशस्त्रं समारभमाणान्समनुजानीयात्, यस्यैते उदकशस्त्रसमारम्भाः द्विधा परिज्ञाता भवन्ति स एव मुनिः परिज्ञातकर्मा भवति । ब्रवीमीति पूर्ववद् । इति शस्त्रपरिज्ञायां तृतीयोदेशकः समाप्तः ॥ १-३ ॥
॥ अथ प्रथमाध्ययने चतुर्थः तेजस्कायोद्द शकः ॥
उक्तस्तृतीयोदेशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोद्देश के मुनित्वप्रतिपत्तये अप्कायः प्रतिपादितः तदधुना तदर्थमेव क्रमायातस्तेजस्कायप्रतिपादनायायमुद्देशकः समारभ्यते तस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि वाच्यनि तावद्यावन्नाम निष्पन्ने निक्षेपे तेज उद्देशक इति नाम, तत्र तेजसो निक्षेपादीनि द्वाराणि वाच्यानि, अत्र च पृथिवीविकल्पतुल्यत्वात् केषाश्चिदतिदेशो द्वाराणामपरेषां तद्विलक्षणत्वात् अपोद्धार इत्येतत् द्वयमुररीकृत्य नियुक्तिद् गाथामाह
उस्सवि दाराई ताई' जाइ हवंति पुढवीए । नाणत्ती उ विहाणे परिमाणुवभोगसत्थे य ॥ ११६ ॥ 'तेजसोsपि' अग्नेरपि 'द्वाराणि' निक्षेपादीनि यानि पृथिव्याः समधिगमेऽभिहितानि तान्येव वाच्यानि अपवादं
'अध्ययनं ?
उद्ददेशकः २
॥ ९६ ॥