SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ नित्यत्वादाकाशवत्, यच्च प्रमाणं तदनित्यं दृष्टं प्रत्यक्षादिवदिति, तथा विभूषासूत्रावयवेऽपि पृष्टा न प्रत्युत्तरदाने क्षमाः, यतियोग्यं स्नानं न भवति, कामाङ्गत्वात् , मण्डनवत्, कामाङ्गता च सर्वजनप्रसिद्धा, तथा चोक्तम्- "स्नानं मददर्पकरं, कामाङ्ग प्रथमं स्मृतम् । तस्मात्कामं परित्यज्य, नैव स्नान्ति दमे रताः॥१॥" शौचार्थोऽपि न पुष्कलो, वारिणा बाह्यमलापनयनमात्रत्वात्, न ह्यन्तर्व्यवस्थितकर्ममलक्षालनसमर्थ वारि दृष्टं, तस्माच्छरीवाङ्मनसामकुशलप्रवृत्तिनिरोधो भावशौचमेव कर्मक्षयायालं, तच्च वारिसाध्यं न भवति, कुतः ? अन्वयव्यतिरेकसमधिगम्यत्वासर्वभावानां, न हि मत्स्यादयः तत्र स्थिता मत्स्यादित्वकर्मक्षयमाकत्वेनाभ्युपगम्यन्ते, विना च वारिणा महर्पयो विचित्रतपोभिः कर्म क्षपयन्तीति, अतः स्थितमेतत्-तत्समयो न निश्चयाय प्रभवतीति ॥ तदेवं निःसपत्नमपां जीवत्वं प्रतिपाद्य तत्प्रवृत्तिनिवृत्तिविकल्पफलप्रदर्शनद्वारेणोपसंजिहीर्षुः सकलमुद्देशार्थमाह एत्थ सत्थं समारभमाणस्स इच्चेए आरंभा अपरिणाया भवंति, एत्थ सत्थं असमारभमाणस्सा इच्चेते आरंभा परिणाया भवंति, तं परिणाय मेहावी व सयं उदयसत्थं समारम्भेजा, णेवण्णेहिं उदयसत्थं समारंभावेज्जा, उदयसत्थं समारंभंतेऽवि अण्णे ण समणुजाणेजा, जस्सेते उदयसत्थसमारंभा परिणाया भवंति से हु मुणी परिणातकम्मे त्ति बेमि ।। सू०३० ॥ इति ततीयोऽप्कायोद्देशकः ॥ एतस्मिन' अपकाये 'शस्त्रं द्रव्यभावरूपं समारममाणस्येत्येते समारम्भा वधवन्धकारणत्वेनापरिज्ञाता भवन्ति. ॥९५
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy