SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ॥ ७ ॥ Pal दर्शयितुमाह-'नानात्वं' मेदो विधानपरिमाणोपभोगशस्त्रेषु, तुरवधारणे, विधानादिष्वेव च नानात्वं नान्यत्रेति, च शब्दाल्लक्षणद्वारपरिग्रहः ॥ यथाप्रतिज्ञातनिर्वहणार्थमादिद्वारव्याचिख्यासयाऽऽहदुविहा य तेउजीवा सुहुमा तह बायरा य लोगंमि । सुहमा य सव्वलोए पंचेव य बायरविहाणा ॥११७॥ स्पष्टा ॥ बादरपश्चभेदप्रतिपादनायाहइंगाल अगणि अच्चो जाला तह मुम्मुरे य बोडव्वे । बायरतेउविहाणा पंचविहा पण्णिया एए ॥११॥ दग्धेन्धनो विगतधूमज्वालोऽकारः, इन्धनस्थः लोपक्रियाविशिष्टरूपः तथा विद्यदुल्काऽशनिसङ्घर्षसमुत्थितः सूर्यमणिसंसृतादिरूपश्चाग्निः, दाह्यप्रतिबद्धो ज्वालाविशेषोऽचिः, ज्वाला छिनमूलाऽनङ्गारप्रतिबद्धा, प्रविरलाग्निकणानुविद्धं भस्म मुमुरः, एते बादरा अग्निभेदाः पञ्च भवन्तीति ॥ एते च बादराग्नयः स्वस्थानाङ्गीकरणान्मनुष्यक्षेत्रेऽर्द्धतृतीयेषु द्वीपसमुद्रेष्वव्याघातेन पश्चदशसु कर्मभूमिषु व्याघाते सति पञ्चसु विदेहेषु, नान्यत्र, उपपाताङ्गीकरणेन लोक। सङ्घय यभागवर्तिनः, तथा चागमः-"उववाएणं दोसु उड्डकवाडेसु तिरियलोयतह (४) य" अस्थायमर्थ:-अर्द्धत्तीयद्वीपसमुद्रवाहल्ये पूर्वापरदिक्षिणोत्तरस्वयम्भूरमणपर्यन्तायते ऊद्धर्वाधोलोकप्रमाणे कपाटे तयोः प्रविष्टा बादराग्निपुत्पद्यमानकास्तद्वथपदेशं लभन्ते, तथा 'तिरियलोयतट्ट (ट्ठ) यत्ति तिर्यग्लोकस्थालके च व्यवस्थितो बादराग्निपुत्पद्यमानो बादराग्निव्यपदेशभाग् भवति । अन्ये तु व्याचक्षते-तयोस्तिष्ठतीति ततस्थः, तिर्यग्लोकश्चासौ ततस्थश्च तिर्यग्लोकतत्स्थः, तत्र च स्थित उत्पित्सु दराग्निव्यपदेशमासादयति, अस्मिश्च व्याख्याने कपाटान्तर्गत एव गृह्यते, स च द्वयोरूद्धर्व 8७॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy