SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ॥ ६३॥ ततश्च कथमिव नादत्तादानं स्यात् ?, न चान्यदीयस्यान्यः स्वामी दृष्टः परमार्थचिन्तायां, नन्वेवमशेषलोकप्रसिद्ध गोदानादिव्यवहारस्त्रुट्यति, त्रुट्यतु नामैवंविधः पापसम्बन्ध:, तद्धि देयं यद्दुःखितं स्वयं न भवति दासीबलीयादिवत्, न चान्येषां दुःखोत्पत्तेः कारणं हलखड्गादिवत् एतद्व्यतिरिक्तं दातुपरिगृहीत्रोरेकान्तत एवोपकारकं देयं प्रतिजानते जिनेन्द्रमतावलम्बिनः, उक्तं च - " यत् स्वयमदुःखितं स्यान्न च परदुःखे निमित्तभूतमपि । केवलमुपग्रहकरं धर्मकृते तद्भवेद्देयम् ॥ १ ॥” इति तस्मादवस्थितमेतत् - तेषां तददत्तादानमपीति ॥ साम्प्रतमेतद्दोषद्वयं स्वसिद्धान्ताभ्युपगमद्वारेण परः परिजिहीषु राह कप्पड़ ने कप्पर णे पाउ, अदुवा विभूसाए ॥ सू० २७ ॥ अशस्त्रोपहतोदकारम्भिणो हि चोदिताः सन्त एवमाहुः - यथा नैतत् स्वमनीषिकातः समारम्भयामो वयं किं त्वागमे निर्जीवत्वेनानिषिद्धत्वात् 'कल्पते' युज्यते 'नः 'अस्माकं 'पातुम्' अभ्यवहतु मिति, वीप्सया च नानाविधप्रयोजनविषय उपभोगोऽभ्यनुज्ञातो भवति, तथाहि - आजीविक भस्मस्नाय्यादयो वदन्ति - पातुमस्माक कल्पते न स्नातु वारिणा, शाक्य परिव्राजकादयस्तु स्नानपानावगाहनादि सर्व कल्पते इति प्रभाषन्ते, एतदेव स्वनामग्राहं दर्शयति--अथवोदकं विभूषार्थमनुज्ञातं नः समये, विभूषा करचरणपायूपस्थमुखप्रक्षालनादिका वस्त्र भण्डकादिप्रक्षालनात्मिका वा, एवं स्नानादिशौचानुष्ठायिनां नास्ति कश्चिद्दोष इति ॥ एवं ते परिफल्गुवचसः परिव्राजकादयो निजराद्धान्तोपन्यासेन मुग्धमतीविमोझ किं कुर्वन्तीत्याह ॥ ९३ ॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy