SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ अध्ययनं १ श्रीआचा राङ्गवृत्तिः उद्देशकः३ (शीलाङ्का.) ऽवधारणार्थः, अन्यतमशस्त्रसम्पर्कविधस्तमेव ग्राह्य, नान्यथेति, 'एत्थति एतस्मिन् अपकाये प्रस्तुते 'अनुविचिन्त्य' विचार्य इदमस्य शस्त्रमित्येवं ग्राह्य', 'पश्ये त्यनेन शिष्यस्य चोदनेति । तदेवं नानाविधं शस्त्रमपकायस्यास्तीति प्रतिपादितम्. एतदेव दर्शयति-'पुढो सत्थं पवेदितं' 'पृथग्' विभिन्नमुत्सेचनादिकं शस्त्रं 'प्रवेदितम्' आख्यातं भगवता, पाठान्तरं वा पुढोऽपासं पवेदितं' एवं पृथग्विभिन्नलक्षणेन शस्त्रेण परिणामितमुदकग्रहणमपाशं प्रवेदितम्-आख्यातं भगवता, अपाशः- अबन्धनं शस्त्रपरिणामितोदकग्रहणमबन्धनमाख्यातमितियावद् ॥ एवं तावत्साधूनां सचित्तमिश्राप्कायपरित्यागेनाचित्तपयसां परिभोगः प्रतिपादितः, ये पुनः शाक्यादयोऽपकायोपभोगप्रवृत्तास्ते नियमत एवाप्कार्य विहिंसन्ति, तदाश्रितांश्चान्यानिति, तत्र न केवलं प्राणातिपातापत्तिरेव तेषां, किमन्यदित्यत आह अदु वा अदिनादाणं ॥ सू० २६ ॥ .. ___ 'अथ वेति पक्षान्तरोपन्यासद्वारेणाम्युच्चयोपदर्शनार्थः, अशस्त्रोपहताप्कायोपभोगकारिणां न केवलं प्राणातिपातः, अपि त्वदत्तादानमपि तत्तेषां, यतो यैरप्कायजन्तुभिर्यानि शरीराणि निर्वतितानि तैरदत्तानि ते तान्युपभुञ्जते, यथाकश्चित् पुमान् सचित्तशाक्यमिक्षुकशरीरकात् खण्डमुत्कृत्य गृहणीयाद्, अदत्तं हि तस्य तत्, परपरिगृहीतत्वात्, परकीयगवाद्यादानवल, एवं तानि शरीराण्यजीवपरिगृहीतानि गृहणीतोऽदत्तादानमवश्यम्भावि, स्वाम्यनुज्ञानाभावादिति, ननु यस्य तत्तडागकूपादि तेनानुज्ञातं सकृत्तत्पय इति, ततश्च नादत्तादानं, स्वामिनाऽनुज्ञातत्वात्, परानुज्ञातपश्वादिघातवत्, नन्वेतदपि साध्यावस्थमेवोपन्यस्तं, यतः पशुरपि शरीरप्रदानविमुख एव भिन्नार्यमर्यादैरुच्चैरारटन्विशस्यते,
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy