________________
के आकारः-आकृतिश्चरित्रं च-अनुष्ठानं यस्य स तथा ततः कर्मधारयः द्यूतप्रसङ्गी-छूतासक्तः एवमितराणि, नवरं भोज्यानि खण्डखाद्यादीनि, पुनर्दारुणग्रहणं हृदयदारक व इत्यस्य विशेषणार्थत्वान्न पुनरुक्तं, लोकानां हृदयानि दारयति-स्फोटयतीति हृदयदारकः, पाठान्तरेण 'जणहियाकारए' जनहितस्याकतेंत्यर्थः, 'साहसिकः ही ॥१९॥
अवितर्कितकारी 'सन्धिच्छेदकः' क्षेत्रखानकः 'उपधिको' मायित्वेन प्रच्छन्नचारी 'विश्रम्भघाती' विश्वासघातकः आदीपक:-अग्निदाता तीर्थानि तीर्थभूतदेवद्रोण्यादीनि भिनत्ति द्विधा करोति तद्र्व्यमोषणाय तत्परिकरभेदनेनेति तीर्थमेदः, लघुभ्यां क्रियासु दक्षाभ्यां हस्ताभ्यां संप्रयुक्तो यः स तथा, ततः पदत्रयस्य कर्मधारयः, परस्य द्रव्यहरणे नित्यमनुबद्धः प्रतिबद्ध इत्यर्थ; 'तीव्रवैरः' अनुबद्धविरोधः 'अतिगमनानि' प्रवेशमार्गान् 'निर्गमनानि' निस्सरणमार्गन् 'द्वाराणि' प्रतोल्यः 'अपरद्वाराणि' द्वारिकाः 'छिण्डी:' छिण्डीकाः वृत्तिच्छिद्ररूपाः 'खण्डी:' प्राकाराच्छिद्ररूपाः नगरनिर्द्धमनानि-नगरजलनिर्गमक्षालान् 'संवर्तनानि'
मार्गमिलनस्थानानि 'निवर्तनानि' मार्गनिर्घटनस्थानानि सई 'द्यूतखलकानि' द्यूतस्थण्डिलानि पानागाराणि मद्यगेहानि वेश्यागाराणि' वेश्याभवनानि तस्करस्थानानि शून्यदेवकुलागारादीनि तस्करगृहाणि'
र तस्करनिवासान् शृङ्गाटकादीनि प्राग् व्याख्यातानि सभाः जनोपवेशनस्थानानि प्रपाः जलस्थानानि, लिङ्गव्यत्ययश्च प्राकृतत्वात्, ‘पणितशालाः' हट्टान् . शून्यगृहाणि-प्रतीतानि 'आभोगयन्' पश्यन् 'मार्गयन्' अन्वयधर्मपर्यालोचनतः 'गवेषयन्' व्यतिरेकधर्मपर्यालोचनतः बहुजनस्य 'छिद्रेषु' 5
प्रविरलपरिवारत्वादिषु चौरप्रवेशावकाशेषु 'विषमेषु' तीव्ररोगादिजनितातुरत्वेषु 'विधुरेषु' इष्टजनवियोगेषु 'व्यसनेषु' राज्याधुपप्लवेषु तथा 'अभ्युदयेषु' है राज्यलक्ष्यादिलाभेषु 'उत्सवेषु' इन्द्रोत्सवादिषु प्रसवेषु' पुत्रादिजन्मसु 'तिथिषु' मदनत्रयोदश्यादिषु'क्षणेषु' बहुलोकभोजनदानादिरूपेषु यज्ञेषु'नागादिपूजासु
'पर्वणीषु' कौमुदीप्रभृतिषु अधिकरणभूतासु मत्तः पीतमद्यतया प्रमत्तश्च प्रमादवान् यः स तथा तस्य बहुजनस्येति योगः, 'व्याक्षिप्तस्य' प्रयोजनान्तरोपयुक्तस्य कि व्याकुलस्य च नानाविधकार्याक्षेपेण सुखितस्य दुःखितस्य च विदेशस्थस्य च देशान्तरस्थस्य विप्रोषितस्य च देशान्तरं गन्तुं प्रवृत्तस्य मार्ग च' पन्थानं 'छिद्रं
च' अपद्वारं 'विरहं च' विजनं अन्तरं अन्तरं च- अवसरमिति आरामादिपदानि प्राग्वत् 'सुसाणेसु यत्ति श्मशानेषु 'गिरिकन्दरेषु' गिरिरन्ध्रेषु 'लयनेषु' गिरिवर्तिपाषाणगृहेषु उपस्थानेषु' तथाविधमण्डपेषु बहुजनस्य छिद्रेष्वित्यादि पुनरावर्तनीयं यावद् ‘एवं च णं विहरइत्ति ॥ सू० ४० ॥ * स भवति सातियोगो यद् द्रव्यमन्यद्रव्येषु क्षिप्त्वा । दोषगुणान् वचनेषु च अथविसंवादनं करोति ॥ १ ॥
॥१९॥