________________
अ.१
वाङ्गम्
प्रतिबोध सू. ३३
१९८॥
सुहितस्स य दुक्खियस्स य विदेसत्थस्स य विष्प-वसियस्स य मग्गं च छिदं च विरहं च अंतरं च मग्गमाणे गवेसमाणे एवं च णं विहरति, बहियावि य णं रायगिहस्स नगरस्स आरामेसु य उज्जाणेसु य वाविपोक्खरणी-दीहिया-गुंजालियासरेसु य सरपंतिसु य सरसरपंतियासु य जिण्णुज्जाणेसु य भग्गकूवएसु य मालुयाकच्छएसु य सुसाणएसु य गिरिकंदर-लेण-उवट्ठाणे(णसाले) सु य बहुजणस्स छिद्देसु य जाव एवं च णं विहरति ।सूत्रं ४० ॥
'तक्करे'त्ति चौरः 'पापस्य' पापकर्मकारिण: चाण्डालस्येव रूपं-स्वभावो यस्य स तथा, चण्डालकर्मापेक्षया भीमतराणि-रौद्राणि कर्माणि यस्य स तथा, 'आरुसिय'त्ति आरुष्टस्येव दीप्ते-रक्ते नयने यस्य स तथा, खरपरुषे-अतिकर्कशे महत्यौ विकृते-बीभत्से दंष्ट्रिके-उत्तरोष्ठकेशगुच्छरूपे दशनविशेषरूपे वा यस्य स तथा, असंपुटितौ असंवृतौ वा परस्परालाभौ तुच्छत्वाद्दशनदीर्घत्वाच्च ओष्ठौ यस्य स तथा उद्भूता-वायुना प्रकीर्णा लम्बमाना मूर्धजा यस्य स तथा, भ्रमरराहुवर्ण: कृष्ण इत्यर्थः 'निरनुक्रोशो' निर्दयो 'निरनुतापः' पश्चात्तापरहित: अत एव 'दारुणो' रौद्रः अत एव प्रतिभयो भयजनकः निःसंशयिकः शौर्यातिशयादेवी तत्साधयिष्याम्येवेत्येवंप्रवृत्तिकः पाठान्तरे 'निसंसे'ति नन्-नरान् शंसति-हिनस्तीति नृशंसः निःशंसो वा-विगतश्लाघः, निरणुकंपेत्ति विगतप्राणिरक्षः निर्गता वा जनानामनुकम्पा यत्र स तथा, अहिरिव एकान्ता-ग्राह्यमेवेदं मयेत्येवमेवनिश्चया दृष्टिर्यस्य स तथा खुरेव एगंतधाराए'त्ति एकत्रान्ते-वस्तुभागेऽपहर्तव्यलक्षणे
धारा परोपतापप्रधानवृत्तिलक्षणा यस्य स तथा, यथा क्षुरप्रः एकधारः, मोषकलक्षणैकप्रवृत्तिक एवेति भाव, 'जलमिव सव्वगाहित्ति यथा जलं सर्वं ES स्वविषयापन्नमभ्यन्तरीकरोति तथाऽयमपि सर्वं गृह्णातीति भावः तथा उत्कञ्चनवञ्चनमायानिकृतिकूटकपटैः सह योऽतिसंप्रयोगो-गायं तेन बहुलः-प्रचुरो यः स
तथा, तत्र उर्ध्वं कञ्चनं मूल्याद्यारोपणार्थं उत्कञ्चनं हीनगुणस्य गुणोत्कर्षप्रतिपादनमित्यर्थः वञ्चनं-प्रतारणं माया-परवञ्चनबुद्धिः निकृतिः-बकवृत्त्या
गलकर्तकानामिवावस्थानं कूट-कार्षापणतुलादेः परवञ्चनार्थ न्यूनाधिककरणं कपटं- नेपथ्यभाषाविपयर्यकरणं एभिरुत्कञ्चनादिभिस्सहातिशयेन यः ही 'संप्रयोगो-योगस्तेन यो बहुलः स तथा, यदिवा साशिययेन द्रव्येण कस्तूरिकादिना परस्य द्रव्यस्य संप्रयोगः सातिसंप्रयोगः ततश्चोत्कञ्चनादिभिः सातिसंप्रयोगेण च की र यो बहुलः स तथा, उक्तं च सातिप्रयोगशब्दार्थाय-“सो होइ साइजोगो दव्वं जं छुहिय अन्नदव्वेसु । दोसगुणा वयणेयु य अत्थविसंवायणं कुणइ ॥१
॥"त्ति एकीयं व्याख्यानं,व्याख्यानान्तरं पुनरेवं-उत्कोचनं उत्कोचः निकृतिः-वञ्चनप्रच्छादनार्थं कर्म सातिः-अविश्रम्भः एतत्संप्रयोगे बहुलः, शेषं तथैव,चिरं-बहुकालं म यावत् नगरे नगरस्य वा विनष्टो- विप्लुतः चिरनगरविनष्टः, बहुकालीनो यो नगरविनष्टो भवति स किलात्यन्तं धूतों भवतीत्येवं विशेषितः, तथा दुष्टं शील-स्वभावः
॥१८॥
.