SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम् ॥ ९६ ॥ ‘जइ ण’मित्यादि, कण्ठ्यं ‘एवं खल्वि'त्यादि तु प्रकृताध्ययनार्थसूत्रं सुगमं चैतत्सर्वं नवरं जीर्णोद्यानं चाप्यभूत्, चापीति समुच्चये अपिचेत्यादिवत्, विनष्टानि देवकुलानि परिसटितानि तोरणानि प्राकारद्वारदेवकुलसम्बन्धीनि गृहाणि च यत्र तत्तथा, नानाविधा ये गुच्छा-वृन्ताकीप्रभृतयः गुल्मा-वंशजालीप्रभृतयः लता:अशोकलतादयः वल्ल्यः- त्रपुषी-प्रभृतयः वृक्षा:- सहकारादयः तैः छादितं यत्तत्तथा, अनेकैर्व्यालशतै:- श्वापदशतैः शङ्कनीयं भयजनकं चाप्यभूत् शङ्कनीयमित्येतद्विशेषणसम्बन्धत्वात्क्रियावचनस्य न पुनरुक्तता, १ । 'मालुकाकच्छए'त्ति एकास्थिफलाः वृक्षविशेषाः मालुका: प्रज्ञापनाभिहितीस्तेषां कक्षो गहन मालुकाकक्ष, चिर्भटिकाकच्छक इति तु जीवाभिगमचूर्णिकारः । 'किण्हे किण्होभासे' इह यावत्करणादिदं दृश्यं, “नीले नीलोभासे, हरिए हरिओभासे सीए सीओभासे निद्धे निद्धोभासे तिव्वे तिव्वोभासे किण्हे किण्हच्छाए नीले नीलच्छाए हरिए हरियच्छाए सीये सीयच्छाए निद्धे निद्धच्छाए तिव्वे तिव्वच्छाए घणकडियडच्छाए "त्ति कृष्णः- कृष्णवर्ण:अञ्जनवत् स्वरूपेण कृष्णवर्ण एवावभासते द्रष्टृऋणां प्रतिभातीति कृष्णावभास, किल किञ्चिद्वस्तु स्वरूपेण भवत्यन्यादृशं प्रतिभासते तु सन्निधानविप्रकर्षादेः कारणादन्यादृशमिति, एवं क्वचिदसौ नीलो मयूरग्रीवेव क्वचित् हरितः शुकपिच्छवत्, हरितालाभ इति वृद्धा, तथा शीतः स्पर्शत: वल्ल्याद्याक्रान्तत्वादिति च वृद्धा, स्निग्धो न रूक्षः तीव्रो वर्णादिगुणवान् तथा कृष्णः सन् वर्णतः कृष्णच्छाय: छाया च दीप्तिरादित्यकरावरणजनिता वेति, एवमन्यत्रापि 'घणकडियडच्छाए 'त्ति अन्योऽन्यशाखाप्रशाखानुप्रवेशात् घननिरन्तरच्छायो रम्यो महामेघानां निकुरम्ब:- समूहस्तद्वद् यः स महामेघनिकुरम्बभूतः, वाचनान्तरे त्विदमधिकं पठ्यते- 'पत्तिए पुष्फिए फलिए हरियग-रेरिज्जमाणे' हरितकश्चासौ रेरिज्जमाणेत्ति-भृशं राजमानश्च यः स तथा 'सिरीए अईव २ उवसोभेमाणे चिट्ठइत्ति श्रिया - वनलक्ष्म्या अतीव २ उवशोभमानस्तिष्ठति, 'कुसेहि य'त्ति दर्भैः क्वचित् 'कूविएहि य'त्ति पाठः तत्र कूपिकाभिः लिङ्गव्यत्ययात् 'खाणुएहि 'न्ति स्थाणुभिश्च पाठान्तरेण 'खतएहिं 'ति . खातैर्गर्तैरित्यर्थः अथवा 'कूविएहिं 'ति चोरगवेषकै: 'खत्तएहि 'ति खातकैः क्षेत्रस्येति गम्यते चौरैरित्यर्थः अयमभिप्रायो- गहनत्वात् तस्य तत्र चौरा: प्रविशन्ति तद्गवेषणार्थमितरे चेति, संछन्नो- व्याप्तः परिच्छन्न- समन्तात् अन्तः- मध्ये शुषिरः सावकाशत्वात् बहिर्गंभीरो दृष्टेरप्रक्रमणात् ॥ सू० ३७ ॥ तत्थ णं रायगिहे नगरे धण्णे (धणे) नामं सत्थवाहे अड्ढे दित्ते जाव विउलभत्तपाणे, तस्स णं धण्णस्स सत्थवाहस्स भद्दा नामं भारिया होत्था सुकुमालपाणिपाया अहीण-पडिपुण्ण-पंचिदियसरीरा लक्खण- वंजण-गुणोववेया माणुम्माणप्पमाण- पडिपुन्नसुजात-सव्वंगसुंदरंगी ससिसोमागारा कंता पियदंसणा सुरूवा करयल-परिमिय-तिवलियमज्झा कुंडलुल्लिहिय-गंडलेहा कोमुदि-रयणियर-पडिपुण्ण- सोमवयणा सिंगारागार-चारुवेसा जाव पडिरूवा वंझा अवियाउरी जाणुकोप्परमाया यावि होत्था ॥ सूत्रं ३८ ॥ अ. १ हस्ति भवः सू. ३२ ॥९६॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy