SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ॥८५॥ विविधं अनेकधा 'दिन्न'त्ति दत्ता दिक्ष्वात्मनि च क्रीडापरतया क्षिप्ता येन स तथा, क्रीडयैव कृताः पांशुघाता येन स तथा, ततः पदद्वयस्य कर्म्मधारय, 'तुमं'ति त्वं, • तथा कुसुमैः कृतानि यानि चामरवत्कर्णपूराणि तैः परिमंण्डितोऽभिरामश्च यः स तथा, क्वचित् 'उउयंकुसुम'त्ति पाठः तत्र ऋतुजकुसुमैरिति व्याख्येयं, तथा मदवशेन विकसन्ति कटतटानि - गण्डतटानि क्लिन्नानि - आद्रीकृतानि येन तत्तथा तच्च तद्गन्धमदवारि च तेन सुरभिजनितगन्धः- मनोज्ञकृतगन्धः करेणुपरिवृतः ऋतुभिः समस्ता समाप्ता वा परिपूर्णा जनिता शोभा यस्य स तथा काले किंभूते ? - दिनकर करप्रचण्डो यत्र स तथा तत्र, परिशोषिताः - नीरसीकृताः तरुवराः श्रीधराः- शोभावन्तो येन परिशोषिता वा तरुवराणां श्री:-संपद्धरायां-भूवि वा येन, पाठान्तरे परिशोषितानि तरुवरशिखराणि येन स तथा चासौ भीमतरदर्शनीयश्चेति, तत्र, भृङ्गाराणां-पक्षिविशेषाणां रुवतां - रवं कुर्वतां भैरवो - भीमो रवः- शब्दो यस्मिन् स तथा तत्र, नानाविधानि पत्रकाष्ठतृणकचबराण्युद्धतानि - उत्पाटितानि येन स तथा चासौ प्रतिमारुतश्च-प्रतिकूलवायुस्तेन आदिग्धं व्याप्तं नभस्तलं-व्योम 'पडुममाणे 'त्ति पटुत्वादुपतापकारि यस्मिन् पाठान्तरे उक्तविशेषणेन प्रतिमारुतेनादिग्धं • नभस्तलं द्रुमगणश्च यस्मिन् स तथा, तत्र वातोल्या-वात्यया दारुणतरो यः स तथा तत्र, तृष्णावशेन ये दोषा-वेदनादयस्तैर्दोषिता-जातदोषा दूषिता वा भ्रमन्तो विविधा ये श्चापदास्तैः समाकुलो यः स तथा तत्र, भीमं यथा भवत्येवं दृश्यते यः सः भीमदर्शनीयः तत्र वर्तमाने दारुणे ग्रीष्मे, केनेत्याह-मारुतवशेन यः प्रसर-प्रसरणं तेन प्रसृत विजृम्भितश्च-प्रबलीभूतो यः स तथा तेन, वनदवेनेति योग, अभ्यधिकं यथा भवत्येवं भीमभैरवः - अतिभीष्मो रवप्रकारो यस्य स तथा तेन, मधुधाराया यत्पतितं-पतनं तेन सिक्त उद्धावमान:- प्रवर्द्धमानो धगधगायमानो-जाज्वल्यमानः स्पन्दोद्धतश्च-दह्यमानदारुस्पन्दप्रबलः पाठान्तरे शब्दोद्धतश्च यः स तथा तेन दीप्ततरो यः सस्फुलिङ्गश्च तेन, धूममालाकुलेनेति प्रतीतं, श्वापदशतान्तकरणेन तद्विनाशकारिणा ज्वालाभिरालोपितः कृताच्छादनो निरुद्धश्च विवक्षितदिग्गमनेन निवारितो धूमजनितान्धकाराद्भीतश्च यः स तथा आत्मानमेव पालयतीत्यात्मपाल, पाठान्तरेण 'आयवालोय'त्ति तत्र आतपालोकेन- हुतवहतापदर्शनेन महान्तौ तुम्बकितौ स्तब्धतया अरघट्टतुम्बाकृती ससंभ्रमौ कर्णौ यस्य स तथा आकुञ्चितस्थूलपीवरकर: भयवशेन भजन्ती दिश इति गम्यते दीप्ते नयने यस्य स तथा 'आकुंचियथोरपीवरकराभोयसव्वभयंतदित्तनयणो 'त्ति पाठान्तरं तत्राभोगो-विस्तरः सर्वा दिशो भजन्ती दीप्ते नयने यस्येति, वेगेन महामेघ इव वातेनोदितमहारूप, किमित्याह-येन यस्यां दिशि कृतो विहितस्ते त्वया पुरा- पूर्वं दवाग्निभयभीतहृदयेन अपगतानि तृणानि तेषामेव च प्रदेशा- मूलादयोऽवयवा वृक्षाच यस्मात्सोऽपगततॄणप्रदेशवृक्षः कोऽसौ ? - वृक्षोद्देश :- वृक्षप्रधानो भूमेरेकदेशो रूक्षोद्देशो वा, किमर्थं ? - दवाग्निसन्त्राणकारणार्थं दवाग्निसन्त्राणहेतुरिदं भवत्वित्येतदर्थं, तथा येनैव यस्मादेव दिशि मण्डलं तेनैव-तत्रैव प्रधारितवान् गमनाय, कथं बहुभिर्हस्त्यादिभिः सार्द्धमित्ययमेको गमः १० । यत् पुनः 'तणं तुमं मेहा ! अण्णया कयाई कमेण पंचसु' इत्यादि दृश्यते तद्गमान्तरं मन्यामहे, तच्च एवं द्रष्टव्यं 'दुच्वंपि मंडलघायं करेसि जाव सुहंसुहेणं ॥८५ ॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy