________________
॥८३॥
वाचनान्तरे खरपरुषरिष्ठव्याहृतानि विविधानि द्रुमाग्राणि येषु ते खरपरुषरिष्ठव्याहृतविविधद्रुमाग्रास्तेषु वनान्तेष्विति, तथा तृष्णावशेन मुक्तपक्षा:- श्लथीकृतपक्षाः • प्रकटितजिह्वातालुका: असंपुटिततुण्डाश्च- असंवृतमुखाः ये पक्षिसङ्घास्ते तथा तेषु 'ससंतेसु'त्ति श्वसत्सु श्वासं मुञ्चत्सु तथा ग्रीष्मस्य ऊष्मा च- उष्णता उष्णपातश्च-रविकरसन्तापः खरपरुषचण्डमारुतश्च-अतिकर्कशप्रबलवातः शुष्कतृणपत्रकचवरप्रधानवातोली चेति द्वन्द्व: ताभिर्भमन्त:- अनवस्थिता दृप्ताः संभ्रांता ये श्वापदा:-सिंहादयः तैराकुला ये ते तथा, मृगतृष्णा-मरीचिका तल्लक्षणो बद्ध चिह्नपट्टो येषु ते तथा, ततः पदद्वयस्य कर्म्मधारयोऽतस्तेषु सत्सु, गिरिवरेषु-पर्वतराजेषु, तथा संवर्तकितेषु-संजातसंवर्तकेषु त्रस्ता भीता ये मृकाश्च प्रसयाश्च आटव्यचतुष्पदविशेषाः सरीसृपाश्च-गोधादयस्तेषु ततश्चासौ हस्ती अवदारितवदनविवरो निर्लालिताग्रजिह्वश्च य इति कर्म्मधारयः 'महंततुंबइयपुण्णकण्णे' महान्तौ तुम्बकितौ-भयादरघट्टतुम्बाकांरौ कृतौ स्तब्धावित्यर्थः पुण्यौ-व्याकुलतया शब्दग्रहणे प्रवणौ कणौ यस्य स तथा, संकुचित: 'थोर 'त्ति स्थूल: पीवरो- महान् करो यस्य स तथा उच्छ्रितलांङ्गलः 'पीणाइय'त्ति पीनाया-मड्डा तया निर्वृत्तं पैनायिकं तद्विधं यद्विरसं रटितं तल्लक्षणेन शब्देन स्फोटयन्निवाम्बरतलं पादददरेण-पादघातेन कम्पयन्निव 'मेदिनीतल' मित्यादि, कण्ठ्यं' 'दिसो दिसिं'ति दिक्षु चापदिक्षु विपलायितवान् ३ ।
आतुरो व्याकुल: 'जुंजिए 'त्ति बुभुक्षितः दुर्बल:- क्लान्तो ग्लानः नष्टश्रुतिको मूढदिक्कः 'परब्भाहए'त्ति पराभ्याहतो बाधितो भीतो - जातभयः त्रस्तो- जातक्षोभः 'तसिए'त्ति शुष्क आनन्दरसशोषात् उद्विग्नः कथमितोऽनर्थान्मोक्ष्येऽहमित्यध्यवसायवान्, किमुक्तं भवति ? संजातभयः सर्वात्मनोत्पन्नभयः आधावमान-ईत् परिधावमानः समन्तात् 'पाणियपाए 'त्ति पानं पाय: पानीयस्य पायः पानीयपायस्तस्मिन्, जलपानायेत्यर्थ, 'सेयंसि विसन्ने त्ति पङ्के निमग्न, कार्य प्रत्युद्धरिष्यामीतिकृत्वा कायमुद्धर्तुमारब्ध इति शेषः, 'बलियतरायं 'ति गाढतरं ४ ।
'तए ण' मित्यादि, इहैवमक्षरघटना-त्वया हे मेघ ! एको गजवरयुवा करचरणदन्तमुशलप्रहारैर्विप्रालब्धो विनाशयितुमिति गम्यते, विपराद्धो वा-हतः सन् अन्यदा कदाचित् स्वकाद्यूथात् चिरं 'निज्जूढे 'ति निर्धाटितो यः स पानीयपानाय तमेव महाह्रदं समवतरति स्मेति, 'आसुरुत्ते 'त्ति स्फुरितकोपलिङ्ग रुष्ट-उदितक्रोधः कुपित:-प्रवृद्धकोपोदय: चाण्डिक्यितः संजातचाण्डिक्यः प्रकटितरौद्ररूप इत्यर्थः 'मिसिमिसीमाणे 'त्ति क्रोधाग्निना देदीप्यमान इव, एकार्थिका वैते शब्दा कोपप्रकर्षप्रतिपादनार्थं नानादेशजविनेयानुग्रहार्थं वा, 'उच्छुहइ' अवष्टभ्नाति विध्यतीत्यर्थ, 'निज्जाए 'त्ति निर्यातयति समापयति, वेदना किंविधा ? - उज्ज्वला विपक्षलेशेनापि अकलङ्किता विपुला शरीरव्यापकत्वात् क्वचित्तितुलेत्ति पाठस्तत्र त्रीनपि मनोवाक्कायलक्षणानर्थास्तुलयति जयति तुलारूढानिव वा करोतीति त्रितुला कर्कशा-कर्कशद्रव्यमिवानिष्टेत्यर्थः प्रगाढा-प्रकर्षवती चण्डा-रौद्रा दुःखा- दुःखरूपा न सुखेत्यर्थः किमुक्तं भवति ? - दुरधिसह्या, 'दाहवक्कंतिए 'त्ति दाह
॥ ८३ ॥