SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ॥ ८१ ॥ अचकमणो वा ठाणुखंडे वेगेण विप्पसरिस्सामित्तिकट्टु पाए पसारेमाणे विज्जुहते विव रयतगिरिपब्भारे धरणितलंसि सव्वंगेहि य सन्निवइए, तते णं तव मेहा ! सरीरगंसि वेयणा पाउब्भूता उज्जला जाव दाहवक्कंतिए यावि विहरसि, तते गं तुमं मेहा ! तं उज्जलं जाव दुरहियासं तिन्नि राइंदियाइं वेयणं वेएमाणे विहरित्ता एगं वाससतं परमाउं पालइत्ता इहेव जंबुद्दीवे २ भारहे वासे रायगिहे नयरे सेणितस्स रन्नो धारिणीए देवीए कुच्छिसि कुमारत्ताए पच्चायाए १३ ॥ सूत्रं ३२ ।। 'मेहाइ’त्ति हे मेघ इति, एवमभिलाप्य महावीरस्तमवादीत् । 'से णूण 'मित्यादि, अथ नूनं निश्चितं मेघ ! अस्ति एषोऽर्थः ?, 'हंते 'ति कोमलामन्त्रणे अस्त्येषोऽर्थ इति मेघेनोत्तरमदायि १ । वनचरकैः- शबरादिभिः 'शंखे'त्यादि विशेषणं प्रागिव सत्तुस्सेहे सप्तहस्तोच्छ्रितः, नवायतो-नवहस्तायतः एवं दशहस्तप्रमाणः मध्यभागे • सप्ताङ्गानि -पादकरपुच्छलिङ्गलक्षणानि प्रतिष्ठितानि भूमौ यस्य स तथा समः अविषमगात्रः सुसंस्थितो विशिष्टसंस्थानः पाठान्तरेण सौम्यसम्मितः तत्र सोम्य - अरौद्राकारो नीरोगो वा सम्मितः- प्रमाणोपेताङ्ग, पुरतः अग्रतः उदग्र-उच्चः समुच्छ्रितशिराः शुभानि सुखानि वा आसनानि-स्कन्धादीनि यस्य स तथा, पृष्ठतः पश्चाद्भागे वराह इव-शूकर इव वराहः अवनतत्वात्, अजिकाया इवोन्नतत्वात् कुक्षी यस्य स तथा, अच्छिद्रकुक्षी मांसलत्वात् अलम्बकुक्षिरपलक्षणवियोगात् पलम्बलंबोयराहरकरेत्ति-प्रलम्बं च लम्बौ च क्रमेणोदरं च जठरमधरकरौ च ओष्ठहस्तौ यस्य स तथा, पाठान्तरे (प्र)लम्बौ लम्बोदरस्येव गणपतेरिव अधरकरौ यस्स स तथा, धनुःपृष्ठाकृति-आरोपितज्याधनुराकारं विशिष्टं प्रधानं पृष्ठं यस्य स तथा, आलीनानि सुश्लिष्टानि प्रमाणयुक्तानि वर्त्तितानि-वृत्तानि पीवराणि उपचितानि गात्राणि - अङ्गानि अपराणि वर्णितगात्रेभ्योऽन्यानि अपरभागगतानि वा यस्य स तथा, अथवा आलीनादिविशेषणं गात्रं उर: अपरश्च पश्चाद्भागो यस्य स तथा, वाचनान्तरे विशेषणद्वयमिदं- अभ्युद्गता- उन्नता मुकुलमल्लिकेव-कोरकावस्थविचकिलकुसुमवद्धवलाश्च दन्ता यस्य सोऽभ्युद्गतमुकुलमल्लिकाधवलदन्तः आनामितं यच्चापं धनुस्तस्येव ललितं-विलासो यस्याः सा तथा सा च संवेल्लिता च संवेल्लन्ती सङ्कोचिता वा अग्रसुण्डा - सुण्डायं यस्य स आनामितचापललितसंवेल्लिताग्रसुण्ड, आलीनप्रमाणयुक्तपुच्छः प्रतिपूर्णाः सुचारवः कूर्म्मवच्चरणा यस्य स तथा पाण्डुरा:- शुक्लाः सुविशुद्धा:- निर्मलाः स्निग्धा:- कान्ता निरुपहताः- स्फोटादिदोषरहिता विंशतिर्नखा यस्य स तथा, तत्र त्वं हे मेघ ! बहुभिर्हस्त्यादिभिः सार्द्धं संपरिवृतः आधिपत्यं कुर्वन् विहरसीति सम्बन्धः । तत्र हस्तिन:-परिपूर्ण प्रमाणा: लोट्टका :- कुमारकावस्था: कलभाः- बालकावस्था: हस्तिसहस्रस्य नायक:- प्रधान: न्यायको वा देशको हितमार्गादेः प्राकर्षी-प्राकर्षको अग्रगामी प्रस्थापको विविधकार्येषु प्रवर्तको यूथपतिः- तत्स्वामी वृन्दपरिवर्द्धक:- तवृद्धिकारकः 'सइं पललिए' त्ति सदा प्रललितः प्रक्रीडितः कन्दर्परति:- केलिप्रियः ॥८१॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy