________________
ज्ञाताधर्म
कथाङ्गम् ।
AN 490
I७४ ॥
॥४॥
एस मे णित्थारिए समाणे पच्छा पुरा (पच्छाउरस्स) हियाए सुहाए खमाए णिस्सेसाए आणुगामियत्ताए भविस्सति एवामेव ममवि एगे आयाभंडे इवे कंते पिए मणुन्ने मणामे एस मे नित्थारिए समाणे संसारवोच्छेयकरे-भविस्सति तं इच्छामि णं देवाणुप्पियाहिं सयमेव पव्वावियं सयमेव मुंडावियं सेहावियं सिक्खावियं सयमेव आयारगोयर-विणयवेणइय-चरणकरण-जायामायावत्तियं धम्ममाइक्खियं १ ।
तते णं समणे भगवं महावीरे मेहं कुमारं सयमेव पव्वावेति सयमेव आयार जाव धम्ममातिक्खइ-एवं देवाणुप्पिया! गंतव्वं चिट्ठितबं णिसीयव्वं तुयट्टियव्वं भुंजियव्वं भासियव्वं एवं उट्ठाए उट्ठाय पाणेहिं भूतेहिं जीवेहि सत्तेहिं संजमेणं संजमितव्वं अस्सि च णं अढे णो पमादेयव्वं, तते णं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतिए इमं एयारूवं धम्मियं उवएसं णिसम्म सम्म पडिवज्जइ तमाणाए तह गच्छइ तह चिट्ठइ जाव उट्ठाए उट्ठाय पाणेहिं भूतेहिं जीवेहिं सत्तेहिं संजमइ २॥सूत्रं ३०॥
आदीप्त-ईषद्दीप्तः प्रदीप्तः-प्रकर्षेण दीप्त आदीप्तप्रदीप्तोऽत्यन्तप्रदीप्त इति भावः, 'गाहावइत्ति गृहपतिः, 'झियायमाणंसि'त्ति ध्यायमाने भाण्डं-पण्यं हिरण्यादि अल्पभारं पाठान्तरे अल्पं च तत्सारं चेत्यल्पसारं मूल्यगुरुकं, 'आयाए'त्ति आत्मना 'पच्छा पुरा यत्ति पश्चादागामिनि काले पुरा च पूर्वमिदानीमेव लोके जीवलोके अथवा पश्चाल्लोके आगामिजन्मनि पुरालोके इहैव जन्मनि, पाठान्तरे 'पच्छाउरस्स'त्ति पश्चादग्निभयोत्तरकालं आतुरस्य-बुभुक्षादिभिः पीडितस्येति । एगे भंडे 'त्ति एकं-अद्वितीयं भाण्डमिव भाण्डं 'सयमेवे'त्यादि स्वयमेव प्रव्राजितं वेषदानेन आत्मनं इति गम्यते भावे वाक्तःप्रत्ययः प्रव्राजनमित्यर्थः
मुण्डितं शिरोलोचेन सेधितं निष्पादितं करणप्रत्युपेक्षणादिग्राहणतः, शिक्षितं सूत्रार्थग्राहणतः आचारो-ज्ञानादिविषयमनुष्ठानं कालाध्ययनादि गोचरो-भिक्षाटनं का र विनयः-प्रतीतो वैनयिकं तत्फलं कर्मक्षयादि चरणं-व्रतादिकरणं-पिण्डविशुद्यादि यात्रा-संयमयात्रा मात्रा- तदर्थमेवाहारमात्रा ततो द्वन्द्वः तत एषामाचारादीनां वृत्तिः छर वर्त्तनं यस्मिन्नसौ आचारगोचरविनयवैनयिकचरणकरणयात्रामात्रावृत्तिकस्तं धर्ममाख्यातं-अभिहितं १ ।
ततः श्रमणो भगवान् महावीरः स्वयमेव प्रव्राजयति यावत् धर्ममाख्याति, कथमित्याह-एवं गन्तव्यं-युगमात्रभून्यस्तदृष्टिनेत्यर्थः, एवं चिट्ठियव्वं'ति शुद्धभूमौ ऊर्ध्वस्थानेन स्थातव्यं, एवं निषीदितव्यं-उपवेष्टव्यं संदंशकभूमि-प्रमार्जनादिन्यायेनेत्यर्थः एवं त्वग्वर्तितव्यं- शयनीयं सामायिकाद्युच्चारणापूर्वकं शरीरप्रमार्जनां विधाय संस्तारकोत्तरपट्टयोर्बाहूपधानेन वामपार्श्वत इत्यादिना न्यायेनेत्यर्थः, भोक्तव्यं वेदनादिकारणतो अङ्गारादिदोषरहितमित्यर्थः भाषितव्यं-हितमितमधुरादिविशेषणतः, एवमुत्थायोत्थाय-प्रमादनिद्राव्यपोहेन विबुद्ध्य र.प्राणादिषु विषयेषु संयमो-रक्षा तेन संयंतव्यम् संयतिव्यमिति, तत्र-"प्राणा द्वित्रिचतुः प्रोक्ताः, भूतास्तु तरवः स्मृताः । जीवाः पञ्चेद्रिया ज्ञेयाः, शेषाः सत्त्वा उदीरिताः ॥१॥ किंबहुना ? अस्मिन् प्राणादिसंयमे न प्रमादयितव्यमुद्यम एवं कार्य
I७४॥
9