SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ निर्याणं-सिद्धिक्षेत्रं तन्मागों निर्याणमार्ग: एवं निर्वाणमागोंऽपि नवरं निर्वाणं-सकलकर्मविरहजं सुखमिति सर्वदुःखप्रक्षीणमार्ग:सकलाशर्मक्षयोपाय: अहिरिव । एकोऽन्तो-निश्चयो यस्या: सा: एकान्ता सा दृष्टि-बुद्धिर्यस्मिन्निर्मन्थे प्रवचने-चारित्रपालनं प्रति तदेकान्तदृष्टिकं, अहिपक्षे आमिषग्रहणैकतानता-लक्षणा ॥६३ ॥६ एकान्ता-एकनिश्चया दृष्टि-दृक् यस्य स एकान्तदृष्टिक: क्षुरप्राइव एकधारा द्वितीयधाराकल्पाया अपवाद-क्रियाया अभावात् पाठान्तरेण एकान्ता-एकविभागाश्रया EX धारा यस्य तत्तथा लोहमया इव यवा: चर्वयितव्याः प्रवचनमिति प्रक्रम; लोहमययवचर्वणमिव दुष्करं चरणमिति भाव, वालुकाकवल इव निरास्वादं र वैषयिकसुखास्वादनापेक्षया प्रवचनं, गङ्गेव महानदी प्रतिश्रोतसा गमनं प्रतिश्रोतोगमनं तद्भावस्तत्ता तया, प्रतिश्रोतोगमनेन गङ्गेव दुस्तरं प्रवचनमनुपालयितुमिति भाव, एवं समुद्रोपमानं प्रवचनमिति, तीक्ष्णं खड्गकुन्तादिकं चंक्रमितव्यं आक्रमणीयं यदेतत्प्रवचनं तदिति, यथा खड्गादि क्रमितुमशक्यमेवमशक्यं धुर प्रवचनमनुपालयितुमिति भाव; गुरुकं महाशिलादिकं लम्बयितव्यं-अवलम्बनीयं प्रवचनं गुरुकलम्बनमिव दुष्करं तदिति भाव; असिधारायां सञ्चरणीयमित्येवं रूपं धाड सईयव्रत-नियमस्तदसिधाराव्रतं चरितव्यं-आसेव्यं यदेतत्प्रवचनानुपालनं तद्वदेतदुष्करमित्यर्थ; कस्मादेतस्य दुष्करत्वमत उच्यते-'नो य कप्पईत्यादि, 'रइए वत्ति . औद्देशिकभेदस्तच्च मोदकचूर्णादि पुनर्मोदकतया रचितं भक्तमिति गम्यते, दुर्भिक्षभक्तं यद्भिक्षुकार्थं दुर्भिक्षे संस्क्रियते, एवमन्यान्यपि, नवरं कान्तारं-अरण्यं * वईलिका-वृष्टिः ग्लान: सन्नारोग्याय यद्ददाति तद् ग्लानभक्तं, मूलानि पद्मासिन्नाटिकादीनां कन्दा:-सूरणादय: फलानि-आम्रफलादीनि बीजानि-शाल्यादीनि हरितं-मधुरतृणकटुभाण्डादि भोक्तुं वा पातुं वा नालं-न समर्थ: शीताद्यधिसोदुमिति योग: रोगा:-कुष्ठादय: आतङ्कादय: आशुघातिन: शूलादय: उच्चावचान्-नानाविधान् ग्रामकण्टकान्-इन्द्रियवर्गप्रतिकूलान् ७। एवं खलु अम्याओ!' इत्यादि यथा लोहचर्वणाधुपमयादुरनुचरं-दुःखासेव्यं नैर्ग्रन्थं प्रवचनं भवद्भिरुक्तमेवं-दुरुनुचरमेव,केषां? क्लीबानां-मन्दसंहननानां कातराणां-चित्तावष्टम्भवर्जितानामत एव कापुरुषाणां-कुत्सितनराणां, विशेषणद्वयं तु कण्ठयं, पूर्वोत्तमेवार्थमाह-दुरनुचरं-दुःखासेव्यं नैर्ग्रन्थं प्रवचनमिति प्रकृतं, कस्येत्याहप्राकृतजनस्य, एतदेव व्यतिरेकेणाह 'नो चेव णं' नैव धीरस्य-साहसिकस्य दुरनुचरमिति प्रकृतं, एतदेव वाक्यान्तरेणाह-निश्चितं-निश्चयवद् व्यवसितं-व्यवसाय: कर्म यस्य स तथा तस्य, 'एत्थ'त्ति अत्र नैग्रन्थे प्रवचने किं दुष्कर,? न किञ्चित् दुरुनुचरमित्यर्थः कस्यामित्याह- 'करणतायां' NIC करणानां संयमव्यापाराणां भाव: करणता तस्यां, संयमयोगेषु मध्ये इत्यर्थ: तत्-तस्मादिच्छाम्यम्बतात् ! ८ ॥ सूत्रं २७ ॥ . ब तते णं तं मेहं कुमारं अम्मापियरो जाहे नो संचाइंति बहूहि विसयाणुलोमाहि य विसयपडिकूलाहि य आघवणाहि य पन्नवणाहि च
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy