SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म ॥२॥ 24 - तत्तथाऽवस्थितं-विशिष्टस्थितिशेष कण्ठयं अविकलकुलसीलसालिणीओ विसुद्धकुलवंससंताणतंतुवद्धणपगन्भुन्भवप्पभाविणीओ'- विशुद्धकुलवंश को एव सन्तानतन्तुः - विस्तारवत्तन्तुः तद्वर्द्धना ये प्रकृष्टा गर्मा-पुत्रवरगर्भास्तेषां य उद्भवः-संभवस्तल्लक्षणो यः प्रभावो-माहात्म्यं स विद्यते यासां ताः तथा सद 'मणोणुकूलहिययइच्छियायो'-मनोऽनुकूलाश्च ता हृदयेनेप्सिताश्चेति कर्मधारयः अट्ठ तुज्झगुणवल्लहाओ-गुणैर्वल्लभा यास्तास्तथा 'भज्जाओ उत्तमाओ कथाङ्गम् निच्चं भावाणुरत्ता सव्वंगसुंदरीओ'त्ति 'माणुस्सगा कामभोग'त्ति इह कामभोगग्रहणेन तदाधारभूतानि स्त्रीपुरुषशरीराण्यभिप्रेतानि अशुचयः " अशुचिकारणत्वात् वान्तं-वमनं तदाश्रवन्तीति वान्ताश्रवा: एवमन्यान्यपि, नवरं पित्तं प्रतीतं खेलो-निष्ठीवनं शुक्र सप्तमो धातुः शोणितं-रक्तं दूरूपाणि-विरूपाणि पर यानि मूत्रपुरीषपूयानि तैर्बहुप्रतिपूर्णाः उच्चारः-पुरीषं प्रस्रवणं-मूत्रं खेल-प्रतीतः सिंघानो-नासिकामलः वान्तादिकानि प्रतीतान्येतेभ्यः संभवः-उत्पत्तिर्येषां ते तथा४। A 'इमे य ते'इत्यादि, इदं च ते आर्यकः-पितामहः प्रार्यकः पितुः पितामहः पितृप्रार्यकः-पितुः प्रपितामहः तेभ्यः सकाशादागतं यत्तत्तथा अथवा आर्यकप्रार्यकपि ऋणां यः पर्यायः परिपाटिरित्यनान्तरं तेनागतं यत्तत्तथा ५। 'अग्गिसाहिए'त्यादि, अग्नेः स्वामिनश्च साधारणं 'दाइय'त्ति दायादाः पुत्रादयः, एतदेव द्रव्यस्यातिपारवश्यप्रतिपादनार्थं ॐ पर्यायान्तरेणाह-'अग्गिसामण्णे'इत्यादि, शटनं वस्त्रादेरतिस्थगितस्य पतनं-वर्णादिविनाशः विध्वंसनं च प्रकृतेरुच्छेदः धम्मों यस्य तत्तथा, ६ । स 'जाहे नो संचाएति'त्ति यदा न शक्नुवन्तौ, 'बहूहिं विसए'त्यादि, बह्वीभिः विषयाणां - शब्दादीनामनुलोमा-तेषु प्रवृत्तिजनकत्वेन अनुकूला विषयानुलोमास्ताभिः आख्यापना- भिश्च-सामान्यतः प्रतिपादनैः प्रज्ञापनाभिश्च-विशेषतः कथनैः संज्ञापनाभिश्च-संबोधनाभिर्विज्ञापनाभिश्च-विज्ञप्तिकाभिश्च र सप्रणयप्रार्थनैः चकाराः समुच्चयार्थाः आख्यातुं वा प्रज्ञापयितुं वा संज्ञापयितुं वा विज्ञापयितुं वा न शक्नुत इति प्रक्रमः 'ताहे'त्ति तदा विषयप्रतिकूलाभिः-शब्दादि-विषयाणां परिभोगनिषेधकत्वेन प्रतिलोमाभिः संयमाद्भयमुद्वेगं च-चलनं कुर्वन्ति यास्ताः संयमभयोद्वेगकारिका:-संयमस्य का दुष्करत्वप्रतिपादनपरास्ताभि: प्रज्ञापनाभि: प्रज्ञापयन्तौ एवमवादिष्टाम्-'निग्गन्थे त्यादि, निर्ग्रन्था-साधवस्तेषामिदं नैर्ग्रन्थं प्रवचनमेव प्रावचनं सद्भ्यो हितं सत्यं ति सद्भूतं वा नास्मादुत्तरं- प्रधानतरं विद्यत इत्यनुत्तरं, अन्यदप्यनुत्तरं भविष्यतीत्याह कैवलिकं केवलं-अद्वितीयं केवलिप्रणीतत्वाद्वा कैवलिकं प्रतिपूर्ण का अपवर्गप्रापकैर्गुणैर्भूतं नयन-सीलं नैयायिकं मोक्षगमकमित्यर्थ: न्याये वा भवं नैयायिकं मोक्षगमकमित्यर्थ: संशुद्धं-सामस्त्येन शुद्धमेकान्ताकलङ्कमित्यर्थः बड़े शल्यानि-मायादीनि कृन्तीति शल्यकर्तनं सेधनं सिद्धि-हितार्थप्राप्तिस्तन्मार्ग: सिद्धिमार्ग: मुक्तिमार्गः-अहितकर्मविच्युतेरुपाय: यान्ति तदिति यानं निरुपम यानं नैयायिक मायनतर अन्यदप्यनुत्तरं भावयत्यादि नियन्या-साधवलनं कुर्वन्ति यास्ता
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy