SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ gawaragya Page मूलमंतो कंदमंतो' कन्दो-मूलानामुपरि 'खंधमंतो' स्कन्धः स्थुडं 'तयामंतो सालमंतो शाला-शाखा 'पवालमंतो' प्रवाल:-पल्लवाङ्करः 'पत्तमंतो पुष्फमतो - यो फलमंतो बीयमंतो' 'अणुपुव्वसुजायरुइलवट्टभावपरिणया' आनुपू]ण-मूलादिपरिपाट्या सुष्ठु जाता रुचिरा: वृत्तभावं च परिणता येते तथा एक्कखंधा श्री अणेगसाला अणेगसाहप्पसाहविडिमा' अनेकशाखाप्रशाखो विटपस्तन्मध्यभागो वृक्षविस्तारो येषां ते तथा 'अणेगणरवामसुप्पसारिय-अगेज्झघण विपुलवट्टखंधा' अनेकाभिर्नरवामाभि: सुप्रसारिताभिरग्राह्यो घनो-निविडो विपुलो-विस्तीर्णो वृत्तश्च स्कन्धो येषां ते तथा 'अच्छिद्दपत्ता' नीरंधपर्णा 'अविरलपत्ता' निरन्तरदला: 'अवाईणपत्ता' अवाचीनपत्रा:-अधोमुखपलाशा: अवातीनपत्रा वा-अवातोपहतबर्हा: 'अणईइपत्ता' ईतिविरहितच्छदा, 'निद्भूयजरठपंडुरयपत्ता' अपगतपुराणपाण्डुरपत्रा, 'नवहरियभिसंत-पत्तभारंधकारगंभीरदरिसणिज्जा' नवेन हरितेन 'भिसन्तत्ति दीप्यमानेन पत्रभारेण-दलसंचयेनान्धकारा-अन्धकारवन्तः अत एव गम्भीराश्च दृश्यन्ते ये ते तथा 'उवनिग्गयनवतरुणपत्त-पल्लवकोमलउज्जलचलंतकिसलयसुकुमाल-पवालसोहिय- वरंकुरग्गसिहरा' उपनिर्गतैर्नवतरुणपत्रपल्लवैरिति-अभिनवपत्रगुच्छै. तथा कोमलोज्ज्वलैश्चलगि किशलयै:-पत्रविशेषैस्तथा सुकुमालप्रवालैः शोभितानि वराङ्कराण्यपशिखराणि येषां ते तथा, इह चाङ्करप्रवालकिशलयपत्राणां अल्पबहुबहुतरादिकालकृतावस्थाविशेषाद् विशेष: संभाव्यत इति, निच्चं कुसुमिया निच्चं माइया' मयूरिता: 'निच्चं लवइया' पल्लविता: 'निच्चं थवइया' स्तबकवन्त: 'निच्च गुल्लइया' गुल्मवन्त: 'निच्चं गोच्छिया' जातगुच्छा; यद्यपि स्तबकगुच्छयोरविशेषो नामकोशेऽधीतस्तथाऽपीह विशेषो भावनीय; निच्चं जमलिया' यमलतया समश्रेणितया व्यवस्थिता; 'निच्चं जुयलिया' युगलतया स्थिता: 'निच्चं विणमिया' 'विशेषेण फलपुष्पभारेण नता; 'निच्चं पणमिया' का तथैव नन्तुमारब्धा; 'निच्चं कुसुमियमाइयलवइयथवइय-गुलइयगोच्छियजमलियजुवलिय-विणमियपणमिय-सुविभत्तपिडिमंजरिवडेंसगधरा' केचित् कुसुमिताद्येकैकगुणयुक्ता:अपरे तु समस्तगुणयुक्तास्तत: कुसुमिताश्च ते इत्येवं कर्मधारय: नवरं सुविभक्ता-विविक्ता: सुनिष्पन्न तया पिण्डयो-लुम्ब्य: मञ्जर्यश्च FE प्रतीतास्ता एवावतंसका:-शेखरकास्तान् धारयन्ति ये ते तथा, 'सुयबरहिणमयणसालकोइलकोभंडकभिंगारक-कोमलकजीवंजीवक नदीमुहकविलपिंगलक्खगकारंड-चक्कवायकलहंससारस-अणेगसउणगणमिहुणविरइयसद्दण्णइय-महुरसरनाइए' शुकादीनां सारसान्तानां अनेकेषां शकुनगणानां मिथुनैर्विरचितं शब्दोन्नतिकं च-उन्नतशब्दकं मधुरस्वरं च नादितं-लपितं यस्मिन् स तथा, वनखण्ड इति प्रकृतं 'सुरम्मे ॥६॥ B संपिडियदरियभमरमहुकरिपहकर-परिलिंतमत्तछप्पयकुसुमासवलोलमहुर-गुमगुमित-गुंजंतदेसभागे' संपिण्डिता दृप्तभ्रमरमधुकरीणां वनसत्कानामेव श्रीक 'पहकर'त्ति निकरा यत्र स तथा तथा परिलीयमाना-अन्यत आगत्य लयं यान्तो मत्तषट्पदा: कुसुमासवलोला:-किञ्जल्कलम्पटा: मधुरं गुमगुमायमाना: गुञ्जन्तश्च पीक
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy