________________
114 11
दत्ता: पंचाङ्गुलास्तला-हस्तका: यत्र तत्तथा, 'उवचियचंदणकलसे' उपचिता- निवेशिताः
चन्दनकलशा-मङ्गल्यघटा यत्र तत्तथा, • 'चंदणघडसुकयतोरण-पडिदुवारदेसभागे' चन्दनघटाश्च सुष्ठ कृतास्तोरणानि च द्वारदेशभागं प्रति यस्मिंस्तच्चन्दनघटसुकृततोरणप्रतिद्वारदेशभागं, देशभागाश्च देशा एव, 'आसत्तोसत्त- विपुलवट्ट-वग्घारियमल्लदामकलावे' आसक्तो भूमौ संबद्ध: उत्सक्त- उपरि संबद्ध: विपुलो- विस्तीर्णः वृत्तो-वर्तुलः 'वग्घारियक्ति प्रलम्बमानः माल्यदामकलाप:- पुष्पमालासमूहो यत्र तत्तथेति 'पंचवण्णसुरभिमुक्क पुप्फपुञ्जोवयारकलिए' पंचवर्णेन सुरभिणा मुक्तेन- क्षिप्तेन पुष्पपुञ्जलक्षणेनोपचारेण-पूजया कलितं यत्तत्तथा 'कालागरु-पवरकुंदुरुक्कतुरुक्क-धूवमघमघंत गंधुद्धयाभिरामे' कालागरुप्रभृतीनां धूपानां यो मघमघायमानो गन्ध उद्धूत- उद्भूतस्तेनाभिरामं यत्तत्तथा, तत्र कुंदुरुक्कं चीडा तुरुक्कं सिल्हकं 'सुगंधवरगंघगंधिए' सद्गन्धा ये वरगन्धा- वासास्तेषां गन्धो यत्रास्ति तत्तथा 'गंघवट्टिभूए' सौरभ्यातिशयात् गन्धद्रव्यगुटिकाकल्पमित्यर्थः 'नडनट्टकजल्लमल्ल-मुट्ठियवेलंबंग-पवककहकलासक• आइक्खयलंखमंखतूणइल्ल- तुंबवीणियभुयगमागहपरिगए' पूर्ववन्नवरं भुजगा-भोगिन इत्यर्थः भोजका वा तदर्चका मागधा भट्टा: 'बहुजणजाणवयस्स विस्सुयकित्तिए' बहोर्जनस्य पौरस्य जानपदस्य च जनपदभवलोकस्य विश्रुतकीर्त्तिकं प्रतीतख्यातिकं, 'बहुजणस्स आहुस्स आहुणिज्जे' आहोतुः दातुः आहवनीयं संप्रदानभूतं 'पाहुणिज्जे' प्रकर्षेण आहवनीयमिति 'गमनिका 'अच्चणिज्जे' चन्दनगन्धादिभिः 'वंदणिज्जे' स्तुतिभिः 'पूयणिज्जे' पुष्पैः 'सक्कारणिज्जे' वस्त्रैः 'सम्माणणिज्जे' बहुमानविषयतया 'कल्लाणं मंगलं देवयं चेइयं विणएणं पज्जुवासणिज्जे' कल्याणमित्यादिधिया विनयेन पर्युपासनीयं 'दिव्वे' दिव्यं प्रधानं 'सच्चे' सत्यं सत्यादेशत्वात् 'सच्चोवाए' सत्यावपातं 'सत्यसेवं' सेवायाः सफलीकरणात् 'सन्निहियपाडिहेरे'
विहितदेवताप्रातिहार्य, 'कृष्ण एव जागसहस्सभागपडिच्छए' यागा:- पूजाविशेषा ब्राह्मणप्रसिद्धास्तत्सहस्राणां भागम् अंशं प्रतीच्छति आभाव्यत्वात् . यत्तत्तथा 'बहुजणो अच्चेइ आगम्म पुण्णभद्दं चेइअं । से णं पुण्णभद्दे चेइए एक्केणं महया वणसंडेण सव्वओ समंता संपरिखित्ते' सर्वतः सर्वदि समन्तात्-विदिक्षु च 'से णं वणसंडे किण्हे किण्होभासे' कृष्णावभासः- कृष्णप्रभः कृष्ण एव वाऽवभासत इति कृष्णावभास; 'नीले नीलोभासे' प्रदेशान्तरे 'हरिए हरिओभासे प्रदेशान्तर एव तत्र नीलो मयूरगलवत् हरितस्तु शुकपिच्छवत् हरितालाभ इति वृद्धा, 'सीए सीओ भासे' शीतः स्पर्शापेक्षया वल्ल्याद्याक्रान् वृद्धा, निद्धे निद्धो भासे' स्निग्धो न तु रुक्ष, 'तिव्वे तिव्वोभासे' तीव्रो वर्णादिगुणप्रकर्षवान्, 'किण्हे किण्हच्छाए' इह कृष्णशब्दः कृष्णच्छाय इत्यस्य विशेषणमिति न पुनरुक्तता, तथाहि-कृष्ण-कृष्णच्छाय, छाया चादित्यावरणजन्यो वस्तुविशेष; एवं 'नीले नीलच्छाए हरिए हरिच्छाए सीए सीयच्छाए निद्धे निद्धच्छाए तिव्वे तिव्वच्छाए घणकडियकडिच्छाए' अन्योऽन्यं शाखानुप्रवेशाद्बहलनिरन्तरच्छायः 'रम्मे महामेहनिकुरंबभूए' महामेघवृन्दकल्पे इत्यर्थ, 'ते णं पायवा
114 11