SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ साधर्म अमय प्रयत्नः ५०॥ सू.१६ लीलट्ठियसालभंजियागं अब्भुग्गयसुकयवइरवेतियातोरण-वररइयसालभंजियासुसिलिट्ठविसिट्ठलट्ठसंठितपसत्थवेरुलियखंभनाणामणिकणगरयणखचितउज्जलं बहुसमसुविभत्तनिचिय-रमणिज्जभूमिभागं ईहामिय जाव भत्तिचित्तं खंभुग्गयवयरवेड्यापरिगयाभिरामं विज्जाहरजमलजुयलजुत्तंपिव अच्चीसहस्समालणीयं रूवगसहस्सकलियं भिसमाणं भिब्मिसमाणं चक्खुल्लोयणलेसं सुहफासं सस्सिरीयरूवं कंचणमणियरणथूभियागं नाणाविहपंचवन्न- घंटापडागपरिमंडियग्गसिरं धवलमिरीचिकवयं विणिम्मुयंत लाउल्लोइयमहियं जाव गंधवट्टिभूयं पासादीयं दरिसणिज्ज अभिरूवं पडिरूवं ॥ सूत्रं २२ ॥ 'नवंगसुत्तपडिबोहिए'त्ति नवाङ्गानि द्वे द्वे श्रोत्रे नयने नासिके जिढेका त्वगेका मनश्चैकं सुप्तानीव सुप्तानि-बाल्यादव्यक्तचेतनानि प्रतिबोधितानि-यौवनेन व्यक्तचेतनावन्ति कृतानि यस्य स तथा, आह च व्यवहारभाष्ये-'सोत्ताइ नव सुत्ता'इत्यादि, अष्टादश विधिप्रकारा:-प्रवृत्तिप्रकारा: अष्टादशभिर्वा विधिभि:-भेदैः प्रचार:-प्रवृत्तिर्यस्याः सा तथा तस्यां, देशीभाषायां-देशभेदेन वर्णावलीरूपायां विशारदः-पण्डितो यःस तथा, गीतिरतिगंधर्वे-गीते नाट्ये च कुशल: हयेन युध्यत इति हययोधी, एवं रथयोधी बाहुयोधी बाहुभ्यां प्रमृद्नातीति बाहुप्रमी, साहसिकत्वाद्विकाले चरतीति विकालचारी। 'पासायवडिंसए'त्ति अवतंसका इवावतंसकाः शेखरा: प्रासादाश्च तेऽवतंसकाश्च प्रासादावतंसका प्रधानप्रासादा इत्यर्थ: 'अन्भुग्गयमूसिय'त्ति अभ्युद्गतोच्छितान् अत्युच्चानित्यर्थ; अत्र च द्वितीयाबहुवचनलोपो दृश्य: 'पहसिएविव'त्ति प्रहसितानिव श्वेतप्रभाप्रबलपटलतया हसन्त इवेत्यर्थः तथा मणिकनकरत्नानां भक्तिभिः- विच्छित्तिभिश्चित्रा येते तथा वातोद्धृता या: विजयसूचिका वैजयन्त्यभिघाना: पताका: छत्रातिच्छत्राणि च तै: कलिता ये ते तथा तत: कर्मधारयस्ततस्तान्, तुङ्गान् कथमिव? -गगनतलमभिलवयच्छिखरान् 'जालंतररयणपंजरुमिल्लियव्य'त्ति जालान्तेषु-मत्तालम्बपर्यन्तेषु जालान्तरेषु वा-जालकमध्येषु रत्नानि येषां ते तथा ततो सद्वितीयाबहुवचनलोपो दृश्य: पञ्जरोन्मीलितानि च-पृथक्-कृतपञ्जराणि च प्रत्यग्रच्छायानित्यर्थः, अथवा जालान्तररत्नपञ्जरैः तत्समुदायविशेषैरुन्मीलितानीवोन्मीलितानि चोन्मीषितलोचनानि चेत्यर्थः, मणिकनकस्तूपिकानिति प्रतीतं विकसितानि शतपत्राणि पुण्डरीकाणि च प्रतिरूपापेक्षया साक्षाद्वा येषु ते तथा तान्, तिलकै:-पुण्ड्रै: रत्नैः-कर्केतनादिभि: अर्द्धचन्द्रैः-सोपानविशेषैः भित्तिषु वा-चन्दनादिमयैरालेख्यैः अर्चिता येते तथा तान् पाठान्तरेण । 'तिलकरत्नार्द्धचन्द्रचित्रान्' नानामणिमयदामालङ्कृतान् अन्तर्बहिश्च श्लक्ष्णान्-मसृणान् तपनीयस्य या रुचिरा वालुका तस्याः प्रस्तर:-प्रतरः प्राङ्गणेषु येषां ते तथा तान्, सुखस्पर्शान् सश्रीकाणि-सशोभनानि रूपाणि-रूपकाणि येषु ते तथा तान्,प्रसादीयान्-चित्ताहादकान् दर्शनीयान्-यान् पश्यच्चक्षुर्न श्राम्यति, अभिरूपान्-मनोज्ञरूपान् द्रष्टारं द्रष्टारं प्रति रूपं येषां ते तथा तान्, एकं महद्भवनमिति, अथ भवनप्रासादयो: को विशेष:?, उच्यते, भवनमायामापेक्षया ॥५०॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy