SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ I४८॥ । तां, 'अणु यमुइंग'त्ति अनुधूता-आनुरूप्येण वादनार्थमुत्क्षिप्ता अनुद्धता वा-वादनार्थमेव वादकैरत्यक्ता मृदङ्गा-मर्दला यस्यां सा तथा तां, 4 'आम्मा] मिलायमल्लदाम'न्ति अम्लानपुष्पमालां गणिकावरै-विलासिनीप्रधानैर्नाटकीयै:-नाटकप्रतिबद्धपात्रैः कलिता या सा तथा तां, ज्ञाताधर्म- अनेकतालाचरानुचरितां-प्रेक्षाकारिविशेषैः सेवितां प्रमुदितै-हृष्टैःप्रक्रीडितैश्च-क्रीडितुमारब्धैर्जनैरभिरामा या सा तथा तां, 'यथाहाँ यथोचितां स्थितिपतितां' अ१ कथानम् स्थितौ-कुलमर्यादायां पतिता-अन्तर्भुता या प्रक्रिया पुत्रजन्मोत्सवसंबन्धिनी सा स्थितिपतिता तां, वाचनान्तरे 'दसदिवसियं ठियपडियन्ति र दशाहिकमहिमानमित्यर्थ: कुरुत कारयत वा, 'सएहि ति शतपरिमाणै, दायेहि ति दान, वाचनान्तरे शतिकांश्चेत्यादि, यागान्-देवपूजा: दायान्-दानानि ब भागान्-लब्धद्रव्यविभागानिति २ । धुर प्रथमे दिवसे जातकर्म-प्रसवकर्म नालच्छेदननिखननादिकं, द्वितीयदिने जागरिकां- रात्रिजागरणं तृतीये दिवसे चंद्रसूर्यदर्शनं उत्सवविशेष एत इति, सई पाठान्तरे तु प्रथमदिवसे स्थितिपतितां तृतीये चंद्रसूर्यदर्शनिकां षष्ठे जागरिकां 'निव्वत्ते असुइजायकम्मकरणेत्ति निवृत्ते-अतिक्रान्ते-अशुचीनां जातकर्मणां र करणे 'निव्वत्ते सुइजायकम्मकरणे'त्ति वा पाठान्तरं, तत्र निर्वृत्ते-कृते शुचीनां जातकर्मणां करणे 'बारसाहे दिवसे'त्ति द्वादशाख्ये दिवसे इत्यर्थ; अथवा * द्वादशानामह्नां समाहारो द्वादशाहं तस्य दिवसो येन द्वादशाह: पूर्यते तत्र तथा, मित्राणि-सुहृद: ज्ञातको-मातापितृभ्रात्रादय: निजकाः-स्वकीया: पुत्रादयः स्वजना:-पितृव्यादय: संबन्धिनः-श्वशुरपुत्रश्वशुरादय: परिजनो- दासीदासादि: बलं च-सैन्यं च गणनायकादयस्तु प्रागभिहिताः, 'महइमहालइ'त्ति अतिमहति, 5 आस्वादयन्तावास्वादनीयं, परिभाजयन्तौ अन्येभ्यो यच्छन्तौ मातापितराविति प्रक्रम; 'जेमिय'त्ति जेमितौ भुक्तवन्तौ, 'भुत्तुत्तर'त्ति भुक्तोत्तरं-भुक्तोत्तरकालंES 'आगय'त्ति आगतावुपवेशनस्थाने इति गम्यते, 'समाणे, त्ति सन्तौ, किंभूतौ भूत्वेत्याह? -आचान्तौ शुद्धोदकयोगेन चोक्षौ लेपसिक्थाद्यपनयनेन अत एवल - परमशुचिभूताविति, अयमेयारूवेत्ति इदमेतद्रूपं गौणं कोऽर्थो? -गुणनिष्पन्नं नामधेयं-प्रशस्तं नाम मेघ इति ३। क्षीरधात्र्या-स्तन्यदायिन्या मण्डनधात्र्या-मण्डिकया मज्जनधात्र्या-स्नापिकया क्रीडनधात्र्या- क्रीडनकारिण्या अङ्कधात्र्या-उत्सङ्गस्थापिकया कुब्जिकाभिः-वक्रजङ्घाभिः चिलातीभिः-अनार्यदेशोत्पन्नाभिर्वामनाभिः-हस्वशरीराभिः वटभाभिः-महत्कोष्ठाभिः बर्बरीभिः-बर्बरदेशसंभवाभि: बकुसिकाभिर्योनकाभि: पल्हविकाभि: ईसिनिकाभि: धोरुकिनिकाभि: लासिकाभि: लसुसिकाभिर्द्राविडीभिः सिंहलीभि: आरबीभि: पुलिन्द्रीभिः पक्कणीभिः । बहलीभि: मुरुंडीभि: शबरीभि: पारसीभि: 'नानादेशीभिः' बहुविधाभि: अनार्यप्रायदेशोत्पन्नाभिरित्यर्थ: विदेश: स्वकीयदेशापेक्षया राजगृहनगरदेशस्तस्य In४८॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy