________________
In४७॥
इ
अतिमच्चा:-तेषामप्युपरि' ये तैः कलितं 'णाणाविहरागभूसिय-ज्झयपडागमंडियं' नानाविधरागैः कुसुम्भादिभिर्भुषिता ये ध्वजा: या सिंहगरुडादिरूपकोपलक्षितबृहत्पटरूपा: पताकाश्च तदितरास्ताभिमंडितं 'लाउल्लोइयमहियं लाइयं-छगणादिना भूमौ लेपनं उल्लोइयं-सेटिकादिना कुड्यादिषु
धवलनं ताभ्यां महितं-पूजितं ते एव वा महितं-पूजनं यत्र तत्तथा 'गोसीससरसरत्तचंदण-दहरदिन्नपंचंगुलितलं' गोशीर्षस्य-चन्दनविशेषस्य सरसस्य र च-रक्तचन्दनविशेषस्यैव ददरण-चपेटारूपेण दत्ता-न्यस्ता: पञ्चाङ्गलयस्तला-हस्तका यस्मिन् कुड्यादिषु तत्तथा 'उवचियचंदणकलसं' उपचिता-उपनिहिता
गृहान्तःकृतचतुष्केषु चन्दनकलशा-मङ्गल्यघटा: यत्र तत्तथा 'चंदणघडसुकयतोरण-पडिदुवारदेसभाग' चंदनघटा: सुष्ठकृता: तोरणानि च प्रतिद्वारं द्वारस्य २ देशभागेषु यत्र तत्तथा 'आसत्तोसत्तविपुल-वट्टवग्धारियमल्लदामकलावं' आसक्तो-भूमिलग्न: उत्सक्तश्च-उपरिलग्नो विपुलो वृतो 'वग्धारिय'त्ति प्रलम्बो माल्यदाम्नां-पुष्पमालानां कलापः-समूहो यत्र तत्तथा 'पंचवन्नसरससुरभि-मुक्कपुष्फपुंजोवयारकलिय' पञ्चवर्णा: सरसा: सुरभयो ये मुक्ता: करप्रेरिता: पुष्पपुञ्जास्तैर्य उपचार : पुजा भूमे: तेन कलितं 'कालागरुपवरकुंदुरुक्क-तुरक्कधूवडझंत-मघमघंतगंधुद्धयाभिरामं' कुंदुरुक्कं-चीडा तुरुक्कं सिल्हकं 'सुगन्धवरगन्धियं गंधवट्टिभूयं नडनट्टगजल्लमल्लगमुट्ठिय-वेलंबगकहकहगपवगलासग- आइक्खगलंखमंखतूणइल्लतुंबवीणिय -अणेगतालायरपरिगीयं तत्र नटा-नाटकानां नाटयितार नर्तका-ये नृत्यन्ति अंकिला इत्येके जल्ला-वरत्राखेलका राज्ञः स्तोत्रपाठका इत्यन्ये मल्ला: प्रतीता: मौष्टिका-मल्ला एव ये मुष्टिभि: प्रहरन्ति विडम्बका: विदूषका: कथाकथका: प्रतीता: प्लवका ये उप्लवन्ते नद्यादिकं वा तरन्ति लासका:- ये रासकान् गायन्ति
जयशब्दप्रयोक्तारो वा भाण्डा इत्यर्थः, आख्यायका- ये शुभाशुभामाख्यान्ति लक्षा-वंशखेलका: मङ्खा:- चित्रफलकहस्ता भिक्षाटा: तूणइल्ला:का तूणाभिधानवाद्यविशेषवन्तः तुम्बवीणका-वीणावादका: अनेके ये तालाचरा:- तालाप्रदानेन प्रेक्षाकारिणः तेषां परिसमन्ताद्गीतं-ध्वनितं यत्र तथा कुरुत स्वयं
कारयतान्यैस्तथा चारगशोधनं कुरुत कृत्वा च मानोन्मानवर्द्धनं कुरुत, तत्र मान-धान्यमानं सेतिकादि उन्मानं-तुलामानं कर्षादिकं श्रेणय: कुम्भकारादिजातयः FE प्रश्रेणय:-तत्राभेदरूपाः।
'उस्सुक्क'मित्यादि, उच्छुल्का-उन्मुक्तशुल्कां स्थितिपतितां कुरुतेति संबन्ध; शुल्कं तु विक्रेतव्यं भाण्डं प्रति राजदेयं द्रव्यं, उत्करां-उन्मुक्तकरां, करस्तु गवादीनां प्रति पतिवर्षं राजदेयं द्रव्यं, अविद्यमानो भटानां-राजपुरुषाणां आज्ञादायिनां प्रवेश: कुटुम्बिमन्दिरेषु यस्यां सा तथा तामभटप्रवेशां, दण्डेन निर्वृत्तं दण्डिमं हे कुदण्डेन निर्वृत्तं कुदण्डिमं राजद्रव्यं तन्नास्ति यस्यां सा तथा तामदंडिमकुदंडिमां, तत्र दण्डोऽपराधानुसारेण राजग्राह्यं द्रव्यं कुदण्डस्तु कारणिकानां हा प्रज्ञाद्यपराधान्महत्यप्यपराधिनोऽपराधे अल्पं राजग्राह्या द्रव्यम्, अविद्यमानं धरिमंत्ति ऋणद्रव्यं यस्यां सा तथा तां, अविद्यमानो धारणीय:-अधमर्णो यस्यां सा तथा
: