SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ जाता क्याम् Irso॥ आह-यथाबादरान् असारान् यथासूक्ष्मान-सारान् ततो वैक्रियं करोति, अभयकुमारमणुकंपमाणे'त्ति अनुकम्पयन् हा तस्याष्टमोपवासरूप कष्टं वर्तते इति - को विकल्पयन्नित्यर्थः पूर्वभवे- पूर्वजन्मनि जनिता-जाता या स्नेहात्तीति:- प्रियत्वं न कार्यवसादित्यर्थ: बहुमानश्च-गुणानुरागस्ताभ्यां सकाशात् जात: छ शोकः-चित्तखेदो विरहसद्धावेन यस्य स पूर्वजनितस्नेहप्रीतिबहुमानजातशोकः, वाचनान्तरे- पूर्वभवजनितस्नेहप्रीतिबहुमानजनितशोभस्तत्र शोभा-पुलकादिरूपा, तस्मात्स्वकीयात् विमानवरपुण्डरीकात्, पुण्डरीकता च विमानानां मध्ये उत्तमत्वात् 'रयणुत्तमाउ'त्ति रत्नोत्तमात् रचनोत्तमाद्वार 'घरणीतलगमनाय' भूतलप्राप्तये त्वरित:- शीघ्रं संजनितः- उत्पादितो गमनप्रचारो- गतिक्रियावृत्तिर्येन स तथा, वाचनान्तरे 'धरणीतलगमनसंजनितमनःप्रचार' इति प्रतीतमेव, व्याघूर्णितानि- दोलायमानानि यानि विमलानि कनकस्य प्रतरकाणि च-प्रतरवृत्तरूपाणि आभरणानि धृह च-कर्णपूरे मुकुटं च- मौलि: तेषामुत्कटो य आटोपः- स्फारता तेन दर्शनीयः-आदेयदर्शनो य: तथा, तथा अनेकेषां मणिकनकरलानां 'पहकरत्ति निकरस्तेन छह परिमण्डितो-भक्तिभिश्चित्रो विनियुक्तकः-कट्यां निवेशितो 'मणु'त्ति मकारस्य प्राकृतशैलीप्रभवत्वात् योऽनुरूपो गुण:-कटिसूत्रं तेन जनितो हर्षो यस्य स तथा, प्रेढोलमानाभ्या-दोलायमानाभ्यां वरललितकुण्डलाभ्यां यदुज्ज्वलितम्-उज्ज्वलीकृतं वदनं-मुखं तस्य यो गुणः-कान्तिलक्षण: तेन जनितं सौम्यं रूपं यस्य स र तथा वाचनान्तरे पुनरेवं विशेषणत्रयं दृश्यते "वाघुन्नियविमलकणगपयरगवडेंसग-पकंपमाणचललोलललियपरिलंबमाणएक नरमगरतुरगमुहसयविणिग्गउग्गिन्न-पवरमोत्तिय-विरायमाणमउडुक्कडाडोवदरिसणिज्जे" तत्र व्याधूर्णितानि-चञ्चलानि विमलकनकप्रतरकाणि च अवतंसके च प्रकम्पमाने चललोलानि-अतिचपलानि ललितानि-शोभावन्ति परिलम्बमानानि-प्रलम्बमानानि नरमकरतुरगमुखशतेभ्योमुकुटाग्रविनिर्मिततन्मुखाकृतिशतेभ्यो विनिर्गतानि-निःसृतानि उद्गीर्णानीव- वान्तानीवोद्गीर्णानि यानि प्रवरमौक्तिकानि-वरमुक्ताफलानि तैर्विराजमान-शोभमानं यन्मुकुटं तच्चेति द्वन्द्वः तेषां य उत्कट आटोपस्तेन दर्शनीयो यः स तथा, तथा 'अनेगमणिकणगरयणपहकरपरिमंडियभागभत्तिचित्तविणिउत्तगमणगुणजणिय- पेंखोलमाणवरललितकुंडलुज्जलिय- अहियअहिआभरणजणियसोभे र अनेकमणिकनकरत्ननिकरपरिमण्डितभागे भक्तिचित्रे- विच्छित्तिविचित्रे विनियुक्ते- कर्णयोर्निवेशिते गमनगुणेन-गतिसामर्थ्येन जनिते-कृते प्रेढोलमाने-चञ्चले ये 5 वरललितकुंडले ताभ्यामुज्ज्वलितेन- उद्दीपनेनाधिकाभ्यामाभरणाभ्यामुज्वलिताधिकैर्वाऽऽभरणैश्च कुण्डलव्यतिरिक्तैर्जनिता शोभा यस्य स तथा, तथा "गयजलमलविमलदसणविरायमाणरूवे" गतजलमलं-विगतमालिन्यं विमलं दर्शनम्-आकारो यस्य स तथा, अत एव विराजमानं रूपं यस्य स तथा तत: पडू
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy