SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ॥३३ यस्मिन् प्रनष्टा च नक्षत्रतारकप्रभा यस्मिस्तत्तथा तस्मिन्नम्बरतले इति योग, इन्द्रायुधलक्षणो बद्ध इब बद्ध: चिह्नपट्टो-ध्वजपटो यस्मिंस्तत्तथा तत्राम्बरतले-गगने उड्डीनबलाकापङ्क्तिशोभमानमेघवृन्देऽम्बरतले इति योग; तथा कारण्डकादीनां पक्षिणां मानससरोगमनादि प्रत्यौत्सुक्यकरे संप्राप्ते-उक्तलक्षणयोगेन समागते को प्रावृषि काले, किंभूता अम्मयाओ? इत्याह-ण्हायाओ' इत्यादि किं ते इति किमपरमित्यर्थ; वरौ पादप्राप्तनूपुरौ मणिमेखला-रत्नकाञ्ची हारश्च यासां तास्तथा रचितानि- न्यस्तानि उचितानि-योग्यानि कटकानि-प्रतीतानि खुड्डुकानि च अङ्गुलीयकानि यासां तास्तथा विचित्रैर्वरवलयैः स्तम्भिता-विव स्तम्भितौ भुजौ यासां तास्तथा तत: पदत्रयस्य कर्मधारयः। भाई तथा 'कुंडलोज्जोतितानना वरपायपत्तनेउरमणिमेहलाहाररइय- . उचियकडगखुड्डयएगावलिकंठमुरय-तिसरयवरह वलयहेमसुत्तकुंडलुज्जोवियाणणाओ'त्ति पाठान्तरं तत्र वरपादप्राप्तनूपुरमणिमेखलाहारास्तथा रचितान्युचितानि कटकानि च खुड्डुकानि च एकावली च-विचित्रमणिकृता एकसरिका कण्ठमुरजश्च-आभरणविशेष: त्रिसरकं च वरवलयानि च हेमसूत्रकं च-संकलकं यासां तास्तथा, तथा कुण्डलोद्योतिताननास्ततो वरपादप्राप्तनूपुरादीनां कर्मधारयः रत्नविभूषिताङ्ग्य: नासानि:श्वासवातेनोह्यते यल्लधुत्वात्तत्तथा चक्षुर्हरं दृष्ट्याक्षेपकत्वात्, अथवा प्रच्छादनीयाङ्गदर्शनाच्चक्षुर्हरति र धरति वा निवर्तयति यावत्वात्तत्तथा, वर्णस्पर्शसंयुक्तं वर्णस्पर्शातिशायीत्यर्थ: हयलालाया- अश्वलालायाः सकाशात् 'पेलव'त्ति पेलवत्वेन X मृदुत्वलघुत्वलक्षणेनातिरेक:- अतिरिक्तत्वं यस्य तत् तथा धवलं च तत् कनकेन खचितं- मंडितमन्तयो:-अञ्चलयो: कर्म वानलक्षणं यस्य तत्तथा तच्चेति वाक्यं, आकाशस्फटिकस्य सदृशी प्रभा यस्य धवलत्वात्तत्तथा, अंशुक-वस्त्रविशेष प्रवरमिहानुस्वारलोपो दृश्य: परिहिताः-निवसिता: दुकूलं च- वस्त्रं अथवा दुकूलो-वृक्षविशेष: तद्वल्कलाज्जातं दुकूलं-वस्त्रविशेष एव तत् सुकुमालमुत्तरीयम्-उपरिकायाच्छादनं यासां तास्तथा, सर्वर्तुकसुरभिकुसुमैः प्रवरैर्माल्यैश्चसे ग्रथितकुसुमैः शोभितं शिरो यासां तास्तथा, पाठान्तरे ‘सर्वर्तुकसुरभिकुसुमैः सुरचिता प्रलम्बमाना शोभमाना कान्ता विकसन्ती चित्रा माला यासां तास्तथा, एवमन्यान्यपि पदानि बहुवचनान्तानि संस्करणीयानि, इह वर्णके बृहत्तरो वाचनाभेद, तथा चन्द्रप्रभवरवैडूर्यविमलदण्डा: शङ्खकुन्ददकरजोऽमृतमथितफेनपुञ्जसन्निकाशाश्च ये चत्वारचामरा:-चामराणि तद्वालैर्वीजितमङ्गं यासां तास्तथा, अयमेवार्थो वाचनान्तरे इत्थमधीत: 'सेयवरचामराहिं उधुव्वमाणिहि' २ 'सव्विड्डीए'त्ति छत्रादिराजचिह्नरूपया, इह यावत्करणादेवं द्रष्टव्यं 'सव्वज्जुइए' सर्वद्युत्या-आभरणादिसंबन्धिन्या सर्वयुक्त्या वा-उचितेष्टवस्तुघटनालक्षणया 'सर्वबलेन' सर्वसैन्येन 'सर्वसमुदायेन' पौरादिमीलनेन 'सर्वादरेण' सर्वोचितकृत्यकरणरूपेण 'सर्वविभूत्या' सर्वसंपदा 'सर्वविभूषया' समस्तशोभया 'सर्वसंभ्रमेण' प्रमोदकृतौत्सुक्येन सर्वपुष्पगन्धमाल्यालङ्कारेण 'सर्वतूर्यशब्दसंनिनादेन' तूर्यशब्दानां मीलनेन य: का
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy