________________
॥३१७ ॥
॥ प्राशस्तिः ॥
नमः श्रीवर्द्धमानाय, श्रीपार्श्वप्रभवे नमः । नमः श्रीमत्सरस्वत्यै, सहायेभ्यो नमो नमः ॥ १ ॥ इह हि गमनिकार्थं यन्मया व्यूहयोक्तं, किमपि समयहीनं तद्विशोध्यं सुधीभिः ।
न हि भवति विधेया सर्वथाऽस्मिन्नुपेक्षा, दयितजिनमतानां तायिनां चाङ्गिवर्गे ॥ २ ॥ परेषां दुर्लक्षा भवति हि विपक्षाः स्फुटमिदं, विशेषाद् वृद्धानामतुलवचनज्ञानमहसाम् । निराम्नायाधीभिः पुनरतितरां मादृशजनैस्ततः शास्त्रार्थे मे वचनमनघं दुर्लभमिह ॥ ३ ॥ तत: सिद्धान्ततत्त्वज्ञैः; स्वयमूह्यः प्रयत्नतः । न पुनरस्मदाख्यात, एव ग्राह्यो नियोगतः ॥४॥ तथापि मास्तु मे पापं सङ्घमत्युपजीवनात् । वृद्धन्यायानुसारित्वाद्धितार्थं च प्रवृत्तितः ॥ ५ ॥ तथाहिकिमपि स्फुटीकृतमिह स्फुटेऽप्यर्थतः सकष्टमतिदेशतो विविधवाचनातोऽपि यत् । समर्थपदसंश्रायाद्विगुणपुस्तकेभ्योऽपि यत्, परात्महितहेतवेऽनभिनिवेशिना चेतसा ॥ ६ ॥ यो जैनाभिमतं प्रमाणमनघं व्युत्पादयामासिवान् प्रस्थानैर्विविधैर्निरस्य निखिलं बौद्धादि सम्बन्धि तत् । नानावृत्तिकथाकथापथमतिक्रान्तं च चक्रे तपो, निःसम्बन्धविहारमप्रतिहतं शास्त्रानुसारात्तथा ॥ ७ ॥ तस्याचार्यजिनेश्वरस्य मदवद्धादिप्रतिस्पर्द्धिन; तद्बन्धोरपि बुद्धिसागर इति ख्यातस्य सूरेर्भुवि । छन्दोबन्धनिबद्धबन्धुरवचः शब्दादिसल्लक्ष्मण, श्रीसंविग्नविहारिणः श्रुतनिधेश्चारित्रचूडामणेः ॥ ८ ॥ शिष्येणाभयदेवाख्यसूरिणा विवृतिः कृता । ज्ञाताधर्मकथाङ्गस्य, श्रुतभक्त्या समासतः ॥ ९ ॥
।।३१७ ।।