________________
ज्ञाताधर्म
कचाङ्गम्
5 कपिल
वासुदेवः सू. १३९
॥३००॥
अम्हं निग्गंथो वा २ इमस्स ओरालियसरीरस्स वंतासवस्स पित्तासवस्स सुक्कासवस्स सोणियासवस्स जाव अवस्सं विप्पजहियव्वस्स वा नो वण्णेहेङ वा नो रूवहेउं वा नो बलहेउं वा आहारं आहारेति नन्नत्थ एगाए सिद्धिगमणसंपावणट्ठयाए, से णं इहभवे चेव बहूणं समणाणं २ बहूणं सावयाणं बहूणं साविगाणं अच्चणिज्जे जाव वीतीवतीस्सति, एवं खलु जंबू ! समणेणं भगवया अट्ठारमस्स अयमढे पण्णत्तेत्तिबेमि ॥सूत्र १४६ ॥ अट्ठारसमं णायज्झयणं समत्तं ॥१८॥
'नो वन्नहेतु'मित्यादि, अनेन च किमुक्तं भवति?-'नन्नत्थ'त्ति एकस्याः सिद्धिगमनप्रापणार्थतया अन्यत्र नाहारमाहारवति, तां वर्जयित्वा कारणान्तरेण नाहारयतीत्यर्थ; तत्र सिद्धिगमनस्य-सिद्धिगतेर्य: प्रापणलक्षणोऽर्थ: प्राप्तिरित्यर्थ: तस्य भावस्तत्ता तस्या इति ॥सूत्रं १४६ ॥
इह चैवं विशेषोपनय: “जह सो चिलाइपुत्तो सुंसुमगिद्धो अकज्जपडिबद्धो। धणपारद्धो पत्तो महाडविं वसण-सयकलियं ॥१॥ तह जीवो विसयसुहे लुद्धो काऊण पावकिरियाओ। कम्मवसेणं पावइ भवाडवीए महादुक्खं ॥२॥धणसेट्ठीविव गुरुणो पुत्ता इव साहवो भवो अडवी। सुयमंसमिवाहारो रायगिह इह सिवं नेयं ॥ ३ ॥ जह अडविनयरनित्थरणपावणत्थं तएहिं सुयमंसं भुत्तं तहेह साहू गुरुण आणाए आहारं ॥४॥
भवलंघणसिव- पावणहेउं भुझंति ण उण गेहीए। वण्णबलरूवहेउं च भावियप्पा महासत्ता ॥५॥ म (यथा सचिलातिपुत्रः सुसुमागृद्धोऽकार्यप्रतिबद्धधन्येन प्रारब्धःप्राप्तो महाटवीं व्यसनशतकलिताम् ॥१॥ तथा जीवो विषयसुखे लुब्धः कृत्वा पापक्रियाः ।
कर्मवशेन प्राप्नोति भवाटव्यां महादुःखम् ॥ २॥ धनश्रेष्ठीव गुरवः पुत्रा इव साधवो भवोऽटवी। सुतामांसमिवाहारो राजगृहं इह शिवं ज्ञेयम् ॥ ३॥ यथाऽटवीनिस्तरणनगरप्रापणार्थं तैः सुतामांसं । भुक्तं तथेह साधवो गुरुणामाज्ञयाऽऽहारं ॥४॥ भवलङ्घनशिवप्रापणहेतोर्भुञ्जन्ति न पुनर्मुद्ध्या । वर्णबलरूपहेतोश्व भावितात्मानो महासत्त्वाः ॥५॥) अष्टादश ज्ञातविवरणं समाप्तम् ॥ १८ ॥
॥३००॥