SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ 'नडनट्टग - जल्लमल्लमुट्ठिय - वेलंबगकहकपवक - लासकआइक्खय - लंखमंख - तूणइल्ल - तुंबवीणियअणेगतालाचराणुचरिया' नटा-नाटकानां नाटयितारो नर्तका-ये नृत्यन्ति अंकोल्ला इत्येके जल्ला-वरत्राखेलका: राज्ञः स्तोत्रपाठका इत्यन्ये मल्ला:-प्रतीता: मौष्टिका-मल्ला एव ये मुष्टिभि: प्रहरन्ति विडम्बका-विदूषका: कथका:-प्रतीता: प्लवका-ये उत्प्लवन्ते नद्यादिकं वा तरन्ति लासका ये रासकान् गायन्ति जयशब्दप्रयोक्तारो वा भाण्डा इत्यर्थ: आख्यायिका-ये शुभाशुभमाख्यान्ति लङ्घा-महावंशानखेलका मङ्खा-चित्रफलकहस्ता भिक्षाका: तूणइल्ला-तूणाभिधानवाद्यविशेषवन्त: तुम्बवीणिका-वीणावादका अनेके च ये तालाचरा-तालादानेन प्रेक्षकारिणस्तैरनुचरिता-आसेविता या सा तथा, 'आरामुज्जाणअगडतलाय-दीहियवप्पिणगुणोववेया' आरमन्ति येषु माधवीलतागृहादिषु दम्पत्यादीनि ते आरामा उद्यानानि-पुष्पादिमवृक्षसंकुलान्युत्सवादौ बहुजनभोग्यानि, 'अगडत्ति अवटा: -कूपास्तडागानि प्रतीतानि दीर्घिका-सारण्य, वप्पिण'त्ति केदारा: एतेषां ये गुणा रम्यतादयस्तैरुपपेता-युक्ता या सा तथा, उप अप इत इत्येतस्य शब्दत्रयस्य स्थाने शकन्ध्वादिदर्शनादकारलोपे अपपेतेति भवतीति, 'उव्विद्धविपुल-गंभीरखायफलिहा' उद्विद्धं-उण्डं विपुलं-विस्तीर्णं गम्भीरम्-अलब्धमध्यं खातम्-उपरि विस्तीर्ण अध:संकटं परिखा च-अध उपरि च समखातरूपा यस्याः सा तथा, 'चक्कगयमुसुंढिओरोह-सयग्घिजमलकवाड-घणदुप्पवेसा' चक्राणि-अरघट्टयन्त्रिकाचक्राणि गदा:-प्रहरणविशेताः मुसुण्ढ्योऽप्येवं, अवरोध:प्रतोलीद्वारेष्ववान्तरप्राकारः संभाव्यते, शतघ्यो-महायष्ट्यो महाशिलामय्य, या, पातिता: शतानि पुरुषाणां घ्नन्ति यमलानि-समसंस्थितद्वयरूपाणि यानि कपाटानि घनानि च-निश्छिद्राणि तैर्दुष्प्रवेशा या सा तथा, धनुकुटिल-वंकपागारपरिखित्ता' धनुः कुटिलं-कुटिलधनु: ततोऽपि वक्रेण प्राकारेण परिक्षिप्ता या सा तथा, 'कविसीसय-वट्टरइयसंठियविरायमाणा' कपिशीर्षकैर्वृत्तरचितै: वर्तुलकृते: ए संस्थितै-विशिष्टसंस्थानवद्भिर्विराजमाना-शोभमाना या सा तथा 'अट्टालयचरियदार-गोपुरतोरणउन्नय-सुविभत्तरायमग्गा' अट्टालका:-प्राकारोपरिवाश्रयविशेषा: चरिका-अष्टहस्तप्रमाणो नगर-प्राकारान्तरालमार्गः द्वाराणि भवनदेवकुलादीनां गोपुराणि-प्राकारद्वाराणि S तोरणानि-प्रतीतानि उन्नतानि-गुणवन्ति उच्चानि च यस्यां सा तथा, सुविभक्ता-विविक्ता राजमार्गा यस्यां सा तथा तत: पदद्वयस्य कर्मधारयः 'छेयायरियरइयदढफलिहइंदकीला' छेकेन-निपुणेनाचार्येण-शिल्पिना रचितो दृढो-बलवान् परिघ:-अर्गला इन्द्रकीलश्च-गोपुरावयवविशेषो यस्यां सा तथा 'विवणिवणिछेत्त-सिप्पियाइण्णनिव्वुयसुहा' विपणीनां-वणिक्पथानां हट्टमार्गाणां वणिजां च-वाणिजकानां क्षेत्रं-स्थानं या सा तथा शिल्पिभि:-कुम्भकारादिभिराकीर्णा सुनिर्वृतैः सुखैश्च-सुखिभिर्या राजदन्तादिदर्शनात् सा तथा "सिंघाडगतिग-चउक्कचच्चर-पणियावणविविहवत्थुपरिमंडिया' शृङ्गाटक-त्रिकोणं स्थानं त्रिकं यत्र रथ्यात्रयं मिलति चतुष्कं रथ्याचतुष्कमीलक: चत्वरं-बहुरथ्यापातस्थानं पणितानि-भाण्डानि तत्प्रधाना । ॥३॥ र
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy