________________
किं पुनरधिकृतग्रन्थकरणकाले? तत्कथमुक्तमासीदिति?, उच्यते, अवसर्पिणीत्वात् कालस्य वर्णकग्रन्थवर्णितविभूतियुक्ता तदानीमासीद् इदानीं नास्तीति, क वण्णओ'त्ति चम्पानगर्या वर्णकग्रन्थोऽत्रावसरे वाच्य;
स चायं-'ऋद्धस्थिमियसमिद्धा' ऋद्धा-भवनादिभिवृद्धिमुपगता स्तिमिता-भयवर्जितत्वेन स्थिरा समृद्धा-धनधान्यादियुक्ता तत: पदत्रयस्य कर्मधारयः बार 'पमुइयजणजाणवया' प्रमुदिता: प्रमोदकारणवस्तुनां सद्भावाज्जना:-नगरीवास्तव्यलोका जानपदाश्च-जनपदभवास्तत्रायाता: सन्तो यस्यां सा प्रमुदितजनजानपदा के 'आइण्णजणमणुस्सा' मनुष्यजनेनाकीर्णा-संकीर्णा, मनुष्यजनाकीर्णेति वाच्ये राजदन्तादिदर्शनादाकीर्णजनमनुष्येत्युक्तं,
'हलसयसहस्ससंकिट्ठवियट्ठलट्ठपन्नत्तसेउसीमा' हलानां-लाङ्गलानां शतैः सहस्रश्च शतसहस्रैर्वा-लक्षः संकृष्टा-विलिखिता विकृष्ट-दूरं यावदविकृष्टा हवा -आसन्ना लष्टा-मनोज्ञा कर्षकाभिमतफलसाधनसमर्थत्वात् 'पण्णत्तेति योग्या कृता बीजवपनस्य सेतुसीमा-मार्गसीमा यस्याः सा तथा, अथवा
संकृष्टादिविशेषणानि सेतूनि-कुल्याजलसेक्यक्षेत्राणि सीमासु यस्याः सा तथा, अनेन तज्जनपदस्य लोकबाहुल्यं क्षेत्रबाहुल्यं चोक्तं उत्क्षिप्ताध्ययनं YS 'कुक्कुडसंडेयगामपउरा' कुक्कुटा:-ताम्रचूडा पाण्डेया:-षण्डपुत्रका: षण्ढा एव तेषां ग्रामा:समूहास्ते प्रचुरा-प्रभूता यस्यां सा तथा, अनेन लोकप्रमुदितत्वं स व्यक्तीकृत, प्रमुदितो हि लोक: क्रीडार्थ कुक्कुटान् पोषयति षण्डांश्च करोतीति, 'उच्छुजवसालिकलिया' अनेन च जनप्रमोदकारणमुक्तं, नह्येवंप्रकारवस्त्वभावेन छ
प्रमोदो जनस्य स्यादिति, 'गोमहिसगवेलगप्पभूया' गवादयः प्रभूता:-प्रचुरा यस्यामिति वाक्यं गवेलका-उरभ्रा: AM दूध 'आयारवंतचेइयजुवइविविहसण्णिविट्ठबहुला' आकारवन्ति-सुन्दराकाणि यानि चैत्यानि-देवतायतनानि युवतीनां च-तरुणीनां पुण्यतरुणीनामिति हृदयं यानि र विविधानि संनिविष्टानि-संनिवेशनानि पाटकास्तानि बहुलानि-बहूनि यस्यां सा तथा 'उक्कोडिय-गायगंठिभेयभडतक्कर-खंडरक्खरहिया' उक्कोडा
उत्कोटा-लश्चेत्यर्थ: तया ते व्यवहरन्ति ते उत्कोटिका: गात्रान्-मनुष्यशरीरावयवविशेषान् कट्यादेः सकाशाग्रन्थिकार्षापणादिपोट्टलिकां भिन्दन्ति-आच्छिन्दतीति 88
गात्रग्रन्थिभेदा भटा:-चारभटा बलात्कारप्रवृत्तयः तस्करा:-तदेव-चौर्यं कुर्वन्तीत्येवंशीलास्तस्करा: खण्डरक्षा-दण्डपाशिका: शुल्कपाला वा एभी रहिता या सा तथा, एक * अनेन तत्रोपद्रवकारिणामभावमाह, 'खेमा' अशिवाभावात् 'निरुवद्दवा' निरुपद्रुता अविद्यमानराजादिकृतोपद्रवेत्यर्थः 'सुभिक्षा' सुष्ठ-मनोज्ञा प्रचुरा भिक्षा
भिक्षुकाणां यस्यां सासुभिक्षा,अत एव पाखण्डिकानां गृहस्थानांच'वीसत्थसुहावासा विश्वस्तानां निर्भयानामनुत्सुकानां वासुख-सुखस्वरूप: शुभो वा आवासो र यस्यां सा तथा, 'अणेगकोडीकोटुंबियाइण्णनिव्वुयसुहा' अनेका: कोटयो द्रव्यसंख्यायां स्वरूपपरिमाणे वा येषां ते अनेककोटय: तै: कौटुम्बिकै-कुटुम्बिभिश्चाकीर्णा-संकुला या सा तथा साचासौ निर्वृताच-संतुष्टजनयोगात् संतोषवतीति कर्मधारयोऽत एव सा चासौ सुखाच शुभा वेति कर्मधारयः नई