________________
॥अर्हम् ॥
न्यायविशारदपू.आ.श्रीविजयमुक्तिचन्द्रसूरिभ्योनमः
नवाझीवृत्तिकारकश्रीमदभयदेवसूरिवरविहितवृत्तियुतं गणभृत्पादप्रणीतं
श्रीज्ञाताधर्मकथाङ्गम् ।
॥१॥ उत्क्षिप्ताध्ययनं प्रथमम् ॥ नत्वा श्रीमन्महावीरं प्रायोऽन्यग्रन्थवीक्षितः। ज्ञाताधर्मकथाङ्गस्यानुयोगः कश्चिदुच्यते ॥१॥ तत्र च फलमङ्गलादिचर्च: स्थानान्तरादवसेयः RP केवलमनुयोगद्वारविशेषस्योपक्रमस्य प्रतिभेदरूयप्रक्रान्तशास्त्रस्य वीरजिनवरेन्द्रापेक्षयाऽर्थतः आत्मागमत्वं तच्छिष्यं तु पञ्चमगणधरं
सुधर्मस्वामिनमाश्रित्यानन्तरागमत्वं तच्छिष्यं च जम्बूस्वामिनमपेक्ष्य परम्परागमतां प्रतिपिपादयिषुः अथवा अनुगमाख्यस्य तृतीयस्यानुयोगद्वारस्य भेदभूताया जा पार उपोद्घातनिर्युक्तेः प्रतिभेदभूतनिर्गमद्वारस्वभावं प्रस्तुतग्रन्थस्यार्थतो महावीरनिर्गतत्वमभिधित्सुः सूत्रकारः-'तेणं कालेण' मित्यादिकमुपोद्घातग्रन्थं तावदादावाह
ऊँ नमः सर्वज्ञाय । ते णं काले णं ते णं समए णं चंपानामं नयरी होत्था, वण्णओ ॥ सूत्रं १ ॥ .. तत्र योऽयं णंशब्दः स वाक्यालङ्कारार्थ; ते इत्यत्र च य एकारः स प्राकृतशैलीप्रभवो यथा 'करेमि भंते !' इत्यादिषु ततोऽयं वाक्यार्थो जात:-तस्मिन् काले तस्मिन् समये यस्मिन्नसौ नगरी बभूवेति, अधिकरणे चेयं सप्तमी, अथ कालसमययो: क: प्रति-विशेष:? उच्यते, काल इति सामान्यकाल; अवसर्पिण्याश्चतुर्थविभागलक्षण: समयस्तु तद्विशेषो यत्र सा नगरी स राजा, सुधर्मस्वामी च बभूव, अथवा तृतीयैवेयं, ततस्तेन कालेन-अवसर्पिणीचतुर्थारकलक्षणेन हेतुभूतेन तेन समयेन-तद्विशेषभूतेन हेतुना 'चंपा नाम नयरी होत्यत्ति अभवत् आसीदित्यर्थ: ननु चेदानीमपि साऽस्ति बद्ध