________________
॥२९ ॥
तदेवाह - ईहामृगाः वृकाः ऋषभाः- वृषभाः तुरगनरमगरविहगाः प्रतीताः व्याला:- श्वापदभुजगाः किन्नरा व्यन्तरविशेषा रुरवो मृगविशेषाः सरभा-आटव्याः महाकायपशवः पराशरेतिपर्यायाः चमरा- आटव्या गावः कुञ्जरा दन्तिनः वनलता अशोकादिलताः पद्मलताः पद्मिन्यः एतासां यका भक्तयो विच्छित्तयस्ताभिश्चित्रा या सा तथा तां, सुष्ठ खचिता- मण्डिता वरकनकेन प्रवरपर्यन्तानाम् अञ्चलकर्णवर्तिलक्षणानां देशभागा अवयवा यस्यां सा तथा तां आभ्यन्तरिक आस्थानशालाया अभ्यन्तरभागवर्त्तिनीं यवनिकां काण्डपटं 'अंछावेइ'त्ति आयतां कारयति, आस्तरकेण प्रतीतेन मृदुकमसूरकेण च प्रतीतेनावस्तृतं . यत्तत्तथा, धवलवस्त्रेण प्रत्यवस्तृतम् आच्छादितं विशिष्टं शोभनं अङ्गस्य सुखः स्पर्शो यस्य तत्तथा, अष्टाङ्गम्- अष्टभेदं दिव्योत्पातान्तरिक्षादिभेदं यन्महानिमित्तंशास्त्रविशेषः तस्य सूत्रार्थपाठका ये ते तथा तान् ३ ।
“विणयेण वयणं पडिसुर्णेति "त्ति प्रतिश्रृण्वन्ति अभ्युपगच्छन्ति वचनं, विनयेन किम्भूतेनेत्याह- 'एव' मिति यथैव यूयं भणथ तथैव 'देवो' त्ति हे देव ! 'तहत्ति'त्ति नान्यथा आज्ञया- भवदादेशेन करिष्याम इत्येवमभ्युपगमसूचकपदचतुष्टयभणनरूपेणेति ४ ।
जाव हिययत्ति- 'हरिसवसविसप्पमाणहियया' स्नानानन्तरं कृतं बलिकर्म यैः स्वगृहदेवतानां ते तथा 'जाव पायच्छिच 'त्ति 'कयकोउयमंगलपायच्छित्ता' तत्र कृतानि कौतुकमंगलान्येवेति प्रायश्चित्तानि दुःस्वप्नादिविघातार्थमवश्यकरणीयत्वाद्यैस्ते तथा तत्र कौतुकानि मषीतिलकादीनि मंगलानि तु- सिद्धार्थकदध्यक्षतदूर्वाङ्करादीनि हरितालिका- दूर्वा सिद्धार्थका अक्षताश्च कृता मूर्द्धनि यैस्ते तथा क्वचित् 'सिद्धत्थयहरियालियाकयमंगलमुद्धाणा' एवं पाठः, स्वकेभ्य आत्मीयेभ्य इत्यर्थः । जएणं विजएणं वद्धावेन्ति' जयेन विजयेन च वर्द्धस्व त्वमित्याचक्षत इत्यर्थः तत्र जयः परैरनभिभूयमानता प्रतापवृद्धिश्च विजयस्तु परेषामभिभव इति, अर्चिता - चर्चिताश्चन्दनादिना वन्दिताः - सद्गुणोत्कीर्तनेन पूजिताः- पुष्पैर्मानिता- दृष्टिप्रणामत: सत्कारिता:- फलवस्त्रादिदानतः सन्मानितास्तथाविधया प्रतिपत्त्या 'समाण'त्ति सन्तः 'अण्णमण्णेण सद्धित्ति अन्योऽयेनं सह इत्येवं 'संचालेंति'त्ति संचालयन्ति संचारयन्तीति पर्यालोचयन्तीत्यर्थः लब्धार्थाः स्वतः पृष्टार्थाः परस्परतः गृहीतार्थाः पराभिप्रायग्रहणतः तत एव विनिश्चितार्थाः अत एव अभिगतार्था अवधारितार्था इत्यर्थ; 'गब्भं वक्कममाणंसि 'त्ति गर्भे 'व्युत्क्रामति' उत्पद्यमाने, अभिषेक इति श्रियाः संबंधी, विमानं यो देवलोकादवतरति तन्माता पश्यति यस्तु नरकादुद्धृत्योत्पद्यते तन्माता भवनमिति चतुर्द्दशैव स्वप्ना; विमानभवनयोरेकतरदर्शनादिति । विण्णायपरिणयमेत्ते' विज्ञातं विज्ञानं परिणतमात्रं यस्य स तथा क्वचि 'द्विण्णय'त्ति पाठः स च व्याख्यात एव ५ ॥ 'जीवियारिहं'ति आजन्मनिर्वाहयोग्यम् ६ ॥ सू.१२ ॥
॥२९॥