SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ अ. १ चाइम ॥२८॥ । यस्य स तथा, ततः पदद्वयस्य कर्मधारयः, तथा नानामणीनां कटकत्रुटिकैः- हस्तबाह्वाभरणविशेषैर्बहुत्वात् स्तम्भिताविव स्तम्भितौ भुजौ यस्य स तथा, अधिकरूपेण का सश्रीकः-सशोभो यः स तथा, कुण्डलोद्योतिताननः मुकुटदीप्तशिरस्कः हारेणावस्तृतम् आच्छादितं तेनैव सुष्ठ कृतरतिकं वक्षः- उरो यस्यासौ ताधर्मड हारावस्तृतसुकृतरतिकवक्षाः मुद्रिकापिङ्गलाङ्गलीकः मुद्रिका अङ्गल्याभरणानि ताभिः पिङ्गलाः कपिला अङ्गलयो यस्य स तथा, प्रलम्बेन दीर्घेण प्रलम्बमानेन च सुष्ठ चारिणी कृतं पटेनोत्तरीयम् उत्तरासङ्गो येन स तथा नानामणिकनकरत्तैर्विमलानि महार्हाणि महा_णि निपुणेन शिल्पिना 'उविय'त्ति परिकर्मितानि 'मिसिमिसंतत्ति स्वर्ण दीप्यमानानि यानि विरचितानि-निर्मितानि सुश्लिष्टानि सुगन्धीनि विशिष्टानि-विशेषवन्त्यन्येभ्यो लष्टानि मनोहराणि संस्थितानि प्रशस्तानि च आविद्धानि-परिहितानि वीरवलयानि येन स तथा, सुभटो हि यदि कश्चिदन्योऽप्यस्ति वीरव्रतधारी तदाऽसौ मां विजित्य मोचयत्वेतानि वलयानीति स्पर्द्धयन् यानि फूड परिदधाति तानि वीरवलयानीत्युच्यन्ते, किंबहुना? वर्णितेनेति शेषः कल्पवृक्ष इव सुष्ठ अलङ्कृतो विभूषितश्च फलपुष्पादिभिः कल्पवृक्षो राजा तु मुकुटादिभिरलङ्कृतो विभूषितस्तु वस्त्रादिभिरिति, सह कोरण्टकप्रधानैर्माल्यदामभिर्यच्छत्रं तेन ध्रियमाणेन, कोरण्टकः-पुष्पजाति, तत्पुष्पाणि मालान्तेषु शोभार्थं पदीयन्ते मालायै हितानि-माल्यानि-पुष्पाणि दामानि-माला इति, चतुर्णां चामराणां प्रकीर्णकानां वालैवींजितमङ्गं यस्येति वाक्यं, मङ्गलभूतो जयशब्दः कृत आलोके दर्शने लोकेन यस्य स तथा, तथा अनेके ये गणनायकाः-प्रकृतिमहत्तरा दण्डनायका:-तन्त्रपाला राजानो-माण्डलिका: ईश्वरा-युवराजानो मतान्तरेणाणिमाद्यैश्वर्ययुक्ताः तलवरा:-परितुष्टनरपति-प्रदत्तपट्टबन्धविभूषिताः राजस्थानीयाः माडम्बिका:-छिन्नमडम्बाधिपाः कौटुम्बिकाः र कतिपयकुटुम्बप्रभवोऽवलगकाः मंत्रिण:- प्रतीताः महामंत्रिणो- मंत्रिमण्डलप्रधानाः हस्तिसाधनोपरिका इति वृद्धाः गणका गणितज्ञाः भाण्डागारिका इति वृद्धाः दौवारिका:- प्रतीहारा: राजद्वारिका वा अमात्या- राज्याधिष्ठायकाः चेटाःपादमूलिकाः पीठमर्दा-आस्थाने आसनासीनसेवकाः वयस्या इत्यर्थः 'नगरं' नगरवासिप्रकृतयो निगमा:-कारणिकाः श्रेष्ठिन:- श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः सेनापतयः- नृपतिनिरूपिताश्चतुरङ्गसैन्यनायकाः सार्थवाहाः-सार्थनायका: दूता:-अन्येषां गत्वा राजादेशनिवेदकाः सन्धिपाला:-राज्यसन्धिरक्षका: एषां द्वन्द्वः ततस्तैः इह तृतीयाबहुवचनलोपो द्रष्टव्यः, साई, सह, न केवलं तत्सहितत्वमेवापि तु तैः समिति-समन्तात् परिवृतः- परिकरित इति, नरपतिर्मज्जनगृहात्प्रतिनिष्क्रामतीति संबंध; किंभूतः? प्रियदर्शन; क इव? ॥२८॥ धवलमहामेघनिर्गत इव शशी, तथा ससिव्व' त्ति वत्करणस्यान्यत्र संबंधस्ततो ग्रहगणदीप्यमानऋक्षतारागणानां मध्ये इव वर्तमान इति २ । सिद्धार्थकप्रधानो यो मङ्गलोपचारस्तेन कृतं शान्तिकर्म-विघ्नोपशमकर्म येषु तानि तथा । 'णाणामणी'त्यादि, यवनिकामाञ्छयतीति संबंध; अधिकं प्रेक्षणीयं Ery रूपं यस्यां रूपाणि वा यस्यां सा तथा तां, महार्घा चासौ वरपत्तने वरवस्त्रोत्पत्तिस्थाने उद्गता च-व्यूता तां श्लक्ष्णानि बहुभक्तिशतानि यानि चित्राणि तेषां स्थानं,
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy