________________
॥२७
___ अट्टणसालत्ति अट्टनशाला व्यायामशालेत्यर्थ; अनेकानि यानि व्यायामानि योग्या च-गुणनिका वल्गनं च-उल्ललनं व्यामर्दनंच-परस्परेण बाह्याद्यगमोटनं र मल्लयुद्धं च-प्रतीतं करणानि च-बाहूभङ्गविशेषा मल्लशास्त्रप्रसिद्धानि तैः श्रान्तः सामान्येन परिश्रान्तो अङ्गप्रत्यङ्गापेक्षया सर्वतः शतकृत्वो यत्पक्वं शतेन वा कार्षापणानां यत्पक्वं तच्छतपक्वमेवमितरदपि सुगन्धिवरतैलादिभिरभ्यंगैरिति योगः आदिशब्दात् घृतकर्पूरपानीयादिग्रहः किम्भूतैः?-'प्रीणनीयैः'
रसरुधिरादिधातुसमताकारिभिर्दीपनीयैः-अग्निजननैः दर्पणीयैः-बलकरैः मदनीयै-मन्मथबृंहणीयैर्मासोपचयकारिभिः सर्वेन्द्रियगात्रप्रह्लादनीयैः अभ्यंगैः-स्नेहनैः र अभ्यंगः क्रियते यस्य सोऽभ्यङ्गितः सन् ततस्तैलचर्मणि-तैलाभ्यक्तस्य संबाधनाकरणाय यच्चर्म तत्तैलचर्म तस्मिन् संबाहिते. समाणे'त्ति योगः कैरित्याह?- पुरुषैः,
कथम्भूतैः?-प्रतिपूर्णानां पाणिपादानां सुकुमालकोमलानि-अतिकोमलानि तलानि-अधोभागा येषां ते तथा तैः, छेकै:-अवसर द्विसप्ततिकलापण्डितैरिति चवृद्धाः, ई र दक्षैः कार्याणामविलम्बितकारिभिः प्रष्ठै-वाग्मिभिरिति वृद्धव्याख्या अथवा प्रष्ठै-अग्रगामिभिः कुशलैः-साधुभिः संबाधनाकर्मणि
मेधाविभि:-अपूर्वविज्ञानग्रहणशक्तिनिष्ठै निपुणैः-क्रीडाकुशलैर्निपुणशिल्पोपगतैः-निपुणानि-सूक्ष्माणि यानि शिल्पानि अङ्गमर्दनादीनि तान्युपगतानि-अधिगतानि यैस्ते तथा तैर्जितपरिश्रमैः, व्याख्यान्तरं तु छेकैः-प्रयोगज्ञैर्दक्षैः शीघ्रकारिभिः 'पत्तद्वेहिंति प्राप्ताथै रधिकृतकर्मणि निष्ठां गतैः कुशलैः-आलोचितकारिभिः मेधाविभिः-सकृच्च्छृतदृष्टकर्मज्ञैः निपुणैः-उपायारम्भिभिः निपुणशिल्पोपगतैः-सूक्ष्मशिल्पसमन्वितैरिति, अभ्यङ्गनपरिमर्दनोद्वलनानां करणे ये गुणास्तेषु निर्मातैः अस्थमां सुखहेतुत्वादस्थिसुखा तया 'संवाहनयेति विश्रामणया अपगतपरिश्रमः 'समत्तजालाभिरामे'त्ति समन्तात्-सर्वतो जालकैर्विच्छित्तिभिः छिद्रवद्गृहावयवविशेषैरभिरामो-रम्यो यः स्नानमण्डपः स तथा पाठान्तरे 'समत्तजालाभिरामे'त्ति तत्र समस्तैर्जालकैरभिरामो य: स तथा, पाठान्तरेण 'समुत्तजालाभिरामे' सह मुक्ताजालैयों वर्ततेऽभिरामश्च स तथा तत्र, शुभोदकैः- पवित्रस्थानाहृतैः गन्धोदकैः- श्रीखण्डादिमित्रैः पुष्पोदकैःपुष्परसमित्रैः शुद्धोदकैश्च स्वाभाविकैः । कथं मज्जित इत्याह- 'तत्र' स्नानावसरे यानि कौतुकशतानि रक्षादीनि तैः ‘पक्ष्मले त्यादि पक्ष्मला पक्ष्मवती अत एव सुकुमाला गन्धप्रधाना काषायिका कषायरक्ता शाटिका तया लूषितमङ्ग यस्य स तथा, अहतं-मलमूषिकादिभिरनुपद्रुतं प्रत्यग्रमित्यर्थः सुमहाघु दूष्यरत्नं प्रधानवस्त्रं तेन सुसंवृतः परिगतस्तद्वा सुष्ठ संवृतं-परिहितं येन स तथा, शुचिनी पवित्रे माला च-पुष्पमाला वर्णकविलेपनं च-मण्डनकारि कुङ्कमादि विलेपनं यस्य स तथा, आविद्धानि-परिहितानी मणिसुवर्णानि येन स तथा, कल्पितो-विन्यस्तो हारः-अष्टादशसरिकः अर्द्धहारो-नवसरिकः त्रिसरिकं च प्रतीतमेव यस्य स तथा,
प्रालम्बो-झुम्बनकं प्रलम्बमानो यस्य स तथा, कटिसूत्रेण काट्याभरणविशेषेण सुष्ठ कृता शोभा यस्य स तथा, ततः पदत्रयस्य कर्मधारयः, अथवा कल्पितहारादिभिः र सुकृता शोभा यस्य स तथा, तथा पिनद्धानि-परिहितानि ग्रैवेयकाङ्गुलीयकानि येन स तथा, तथा ललिताङ्गके अन्यान्यपि ललितानि कृतानि-न्यस्तानि आभरणानि च