________________
एयमढे सोच्चा णिसम्म हट्ठ जाव हियया तं सुमिणं सम्मं पडिच्छति २ जेणेव सए वासघरे तेणेव उवागच्छति २ ण्हाया कयबलिकम्मा जाव र विपुलाहिं जाव विहरति७ ॥ सूत्रं १२ ॥
__ 'पच्चू से' त्यादि प्रत्यूषकाललक्षणो यःसमयः-अवसरःस तथा तत्र कौटुम्बिकपुरुषान्-आदेशकारिणः सद्दावेइति शब्दं करोति शब्दयति'उपस्थानशाला'
आस्थानमण्डपं 'गन्धोदकेने त्यादि गन्धोदकेन सिक्ता शुचिका पवित्रा संमार्जिता कचवरापनयनेन उपलिप्ता छगणादिना या सा तथा तां, इदं च विशेषणं POSगन्धोदकसिक्तसंमार्जितोपलिप्तशुचिकामित्येवं दृश्य, सिक्ताद्यनन्तरभावित्वाच्छुचिकत्वस्य, तथा पञ्चवर्णः सरसः सुरभिश्च मुक्तः क्षिप्तः पुष्पपुञ्जलक्षणो यः उपचारः यू पूजा तेन कलिता या सा तथा तां, 'काले त्यादि पूर्ववत्, 'आणत्तियं पञ्चप्पिणहत्ति आज्ञप्तिम् आदेशं प्रत्यर्पयत कृतां सती निवेदयत १ ।। - 'कल्ल'मित्यादि 'कल्ल'मिति श्वः प्रादुःप्राकाश्ये ततः प्रकाशप्रभातायां रजन्यां 'फुल्लोल्पलकमलकोमलोन्मीलितं' फुल्लं-विकसितं तच्च तदुत्पलं च
पद्मं फुल्लोत्पलं तच्च कमलश्च-हरिणविशेषः फुल्लोत्पलकमलौ तयोः कोमलम्-अकठोर-मुन्मीलित-दलाना नयनयोश्चोन्मीलनं यस्मिंस्तत्तथा तस्मिन्, अथ रजनीविभातानन्तरं पाण्डुरे शुक्ले प्रभाते उषसि 'रत्तासोगे' त्यादि रक्ताशोकस्य प्रकाशः प्रभा स च किंशुकं च पलाशपुष्पं शुकमुखं च गुञ्जा फलविशेषो रक्तकृष्णस्तदर्धं बंधुजीवकं च-बंधूकं पारापतः-पक्षिविशेषः तच्चलननयने च परभृतः-कोकिलः तस्य सुरक्तं लोचनं च जासुमिण'इति जपा वनस्पतिविशेषः तस्याः कुसुमं च ज्वलितज्वलनश्च तपनीयकलशश्च हिङ्गलको वर्णकविशेषस्तन्निकरश्च-राशिरिति द्वन्द्वः, तत एतेषां यद्रूपं ततोऽतिरेकेण-आधिक्येन 'रेहंत ति शोभमाना स्वा स्वकीया श्रीः-वर्णलक्ष्मीर्यस्य स तथा तस्मिन् 'दिवाकरे' आदित्ये अथ-अनन्तरं क्रमेण-रजनीक्षयपाण्डुरप्रभातकरणलक्षणेन 'उदिते' उद्गते 'तस्स दिणकरपरंपरावयारपारद्धंमि अंधकारे'त्ति' तस्य-दिवाकरस्य दिने-दिवसे अधिकरणभूते दिनाय वा यः करपरम्परायाः-किरणप्रवाहस्यावतारः-अवतरणं तेन प्रारब्धम्-आरब्धमभिभवितुमिति गम्यते अपराद्धं वा-विनाशितं दिनकरपरम्परावतारप्रारब्धं तस्मिन् सति, इह च. तस्येति सापेक्षत्वेऽपि समासः, तथा दर्शनादन्धकारे-तमसि तथा बालातप एव कुङ्कमं तेन खचिते इव जीवलोके सति, तथा लोचनविषयस्य दृष्टिगोचरस्य योऽणुयासोक्ति- अनुकाशो विकाशः प्रसर इत्यर्थस्तेन विकसंश्चासौ वर्द्धमानो विशदश्च-स्पष्टः सचासौ दर्शितश्चेति लोचनविषयानुकाशविशददर्शितस्तस्मिन् कस्मिन्नित्याह-लोके अयमभिप्रायः-अन्धकारस्य क्रमेण हानौ लोचनविषयविकाशः क्रमेणैव भवति स च विकसन्तं लोकं दर्शयत्येव, अंधकारसद्भावे दृष्टेरप्रसरणे लोकस्य संकीर्णस्येव प्रतिभासनादिति, तथा कमलाकरा-हृदादयस्तेषु षण्डानि-नलिनीषण्डानि तेषां बोधको यः तस्मिन् उत्थिते-उदयानन्तरावस्थावाप्ते 'सूरे' आदित्ये किंभूते?-सहस्ररश्मौ तथा 'दिनकरे' दिनकरणशीले तेजसा ज्वलति सतीति ।
॥२६॥