SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ ॥२६१॥ पडिनिक्खमइ २ जेणामेव जिणघरे तेणामेव उवागच्छति २ जिणघरं अणुपविसइ २ जिणपडिमाणं आलोए पणामं करेइ २ लोमहत्थयं परामुसइ २ एवं जहा सूरियाभो जिणपडिमाओ अच्चेति तहेव भाणियव्वं जाव धूवं डहइत्ति इह यावत्करणात् अर्थत इदं दृश्य-लोमहस्तकेन जिनप्रतिमा: प्रमाटि सुरभिणा गन्धोदकेन स्नपयति गोशीर्षचन्दनेनानुलिम्पति वस्त्राणि निवासयति, तत: पुष्पाणां माल्यानां-ग्रथितानामित्यर्थः गन्धानां चूर्णानां वस्त्राणामाभरणानां र चारोपणं करोति स्म, मालाकलापावलम्बनं पुष्पप्रकरं तन्दुलैर्दर्पणाद्यष्टमङ्गलालेखनं च करोति, 'वामं जाणुं अञ्चेइ'त्ति उत्क्षिपतीत्यर्थ: दाहिणं जाणुं धरणीतलंसि निहट्ट-निहत्य स्थापयित्वेत्यर्थः, तिक्खुत्तो मुद्धाणं धरणीतलंसि निबेसेइ-निवेशयतीत्यर्थ, 'ईसिं पच्चुन्नमति २ करतलपरिग्गहियं अंजलि मत्थए कट्ट एवं वयासी-नमोत्थु णं अरहंताणं जाव संपत्ताणं वंदति नमंसति २ जिणघराओ पडिनिक्खमइत्ति तत्र वन्दते चैत्यवन्दनविधिना प्रसिद्धेन नमस्यति पश्चात् प्रणिधानादियोगेनेति वृद्धाः । न च द्रौपद्या: प्रणिपातदण्डकमात्रं चैत्यवन्दनमभिहितं सूत्रे इति सूत्रमात्रप्रमाण्यादन्यस्यापि श्रावकादेस्तावदेव तदिति मन्तव्यं, चरितानुवादरूपत्वादस्य, न च चरितानुवादवचनानि विधिनिषेधसाधकानि भवन्ति, अन्यथा सूरिकाभादिदेववक्तव्यतायां बहूनां शस्त्रादिवस्तूनामर्चनं श्रूयते इति तदपि विधेयं स्यात्, X किञ्च-अविरतानां प्रणिपात-दण्डकमात्रमपि चैत्यवन्दनं सम्भाव्यते, यतो वन्दते नमस्यतीति पदद्वयस्य वृद्धान्तरव्याख्यानमेवमुपदर्शितं जीवाभिगमवृत्तिकृता-“विरतिमतामेव प्रसिद्धचैत्यवन्दनविधिर्भवति, अन्येषां तथाऽभ्युपगमपुरस्सरकायोत्सर्गासिद्धेः ततो वन्दते सामान्येन नमस्करोति आशयवृद्धेः प्रीत्युत्थानरूपनमस्कारेणे" ति किञ्च- "समणेण सावएण य अवस्स कायव्वयं हवइ जम्हा । अंतो अहो निसिस्स य तम्हा आवस्सयं नाम ॥१॥" कर तथा “जण्णं समणो वा समणी वा सावओवा साविया वा तच्चित्ते तल्लेसे तम्मणे उभओ कालं आवस्सए चिट्ठति तन्नं लोउत्तरिए भावावस्सए" [श्रमणेन श्रावकेण चावश्यं कर्तव्यं भवति यस्मात् । अन्तरह्रो निशायाश्च तस्मादावश्यकं नाम ॥ १ ॥ यत् श्रमणो वा श्रमणी वा श्रावको वा श्राविका वा तच्चित्त: तन्मना: तल्लेश्य: उभयस्मिन् काले आवश्यकाय तिष्ठति तत् लोकोत्तरिकं भावावश्यकं] इत्यादेरनुयोगद्वारवचनात् तथा 'सम्यग्दर्शनसम्पन्न: प्रवचनभक्तिमान् षड्विधावश्यकनिरत: षट्स्थानयुक्तश्च श्रावको भवती' त्युमास्वातिवाचकवचनाच्च श्रावकस्य षड्विधावश्यकस्य सिद्धावावश्यकान्तर्गतं प्रसिद्धं चैत्यवन्दनं सिद्धमेव भवतीति ॥ सूत्रं १२५ ॥ तते णं तं दोवई रायवरकन्नं अंतेउरियाओ सव्वालंकार-विभूसियं करेंति किं ते? वरपायपत्तणेउरा जाव ई चेडिया-चक्कवाल-मयहरगविंद-परिक्खित्ता अंतेउराओ पडिणिक्खमति २ जेणेव बाहिरिया उवट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव र ॥२६१ ॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy